Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१४०८
• जन्मान्तरसंस्कारात् पुनः योगप्रवृत्तिः • द्वात्रिंशिका-२०/३० प्रायाः) योगानां' प्रवृत्तयो (=योगप्रवृत्तयः) भवन्ति । अक्षेपेणैव मोक्षपुरप्राप्त्युपपत्तेः तथाविधकर्मप्रबुद्धा यत्र ते विद्वान् सुषुप्तिं याति योगिराट् ।। - (याज्ञ.२२) इति याज्ञवल्क्योपनिषदुपदर्शितया रीत्या सद्दृष्ट्यव्याघातवतां प्रगे जाग्रतः पथिकस्य या निरन्तरा गतयः संवेगादिलक्षणाः तत्प्राया योगानां = चारित्रादियोगानां पुनः प्रवृत्तयो भवन्ति, प्रतिबन्धकविरहे सामग्र्याः कार्यमनुत्पाद्याऽनुपरमात् । इदमेवाभिप्रेत्य योगशास्त्रे → जन्मान्तरसंस्कारात्स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवनिरुपदेशमपि ।। (यो.शा.१२/१३) इत्युक्तं श्रीहेमचन्द्रसूरिभिः । एतेन → अनेकजन्मसंस्कारात् श्रद्धावान् मां प्रपद्यते - (म.गी.१११) इति महावीरगीतावचनमपि व्याख्यातम् ।
सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायाम् → एतज्जन्मकृतानां वा कर्मणां यादृशी स्मृतिः । अङ्किता जीवचित्ते स्यादासक्तिः स्याद्धि तादृशी ।। - (शं.गी.१९३) इति । तदुक्तं गुणानुरागकुलके अपि → जं अब्भसइ जीवो गुणं च दोसं च एत्थ जम्मम्मि। तं पावइ परलोए तेण य अब्भासजोएण ।। - (गुणा.कु.८) इति पूर्व(पृ.१२३५) उक्तमेव । युक्ततरञ्चैतत् । न हि शुद्धभावोपात्तं कर्म न शुद्धभावान्तरहेतुरिति सम्मतम् । तदुक्तं ललितविस्तरायां → शुद्धभावोपात्तं कर्म अवन्ध्यम्, सुवर्णघटायुदाहरणात् । एतदुदयतो विद्याजन्म, कारणाऽनुरूपत्वेन - (ल.वि. अन्नत्थ.पृ.८९) इति । यथोक्तं पञ्चवस्तुके अपि → परिसुद्धमणुट्ठाणं पुव्वावरजोगसंगयं जं तं । हेमघडत्थाणीयं, सया वि णिअमेण इट्ठफलं ।। (पं.व.१६०६) इति। प्रकृते → सग्गं तवेण सव्वो वि पावए, किंतु झाणजोएण । जो पावइ, सो पावइ परलोये सासयं लोयं ।। अइसोहणजोएणं सुद्धं हेमं हवेइ जह, तह य । कालाईलद्धीए अप्पा परमप्पओ हवदि ।।
6 (मो.प्रा.२३-२४) इति मोक्षप्राभृतश्लोकयुगलतात्पर्यमपि यथागममत्राऽनुयोज्यं शुद्धयोगस्वरूपहेतू-फलविभावननिपुणैः। एतावताऽपवर्गाऽप्रतिपन्थिनामेवाऽभ्युदयादीनामुपनायकत्वं योगप्रवृत्तावाधातुं समर्थस्यैव परमार्थतो योगाधिकारित्वं, न चेच्चरमशरीरीति फलितम् । एतेन → कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् । पूर्वकार्याऽविरोधेन स कार्यं कर्तुमर्हति ।। - (वा.रा.५ ।४१ ।१५) इति वाल्मीकिरामायणवचनमपि व्याख्यातम् ।। . इत्थञ्च अक्षेपेणैव = द्रुतमेव मोक्षपुरप्राप्त्युपपत्तेः, प्रशस्तरागादिविलये सति तथाविधकर्मरूपश्रमाभावेन = भोगाद्युपनायक-निकाचितकर्मलक्षणश्रमविरहेण तदपनयनार्थ-स्वापसमस्वर्भवेन = तादृशकर्मलશહેર તરફ ગતિ કરે તેમ આ વાત સમજવી. કહેવાનો આશય એ છે કે સ્વર્ગમાંથી મનુષ્ય ભવમાં આવ્યા બાદ સ્થિરાદિ દૃષ્ટિવાળા યોગીઓની થતી યોગસાધના દ્વારા ઝડપથી મોક્ષનગરની પ્રાપ્તિ સંગત થઈ શકે છે. કારણ કે જેમ મુસાફરને મુસાફરીનો શ્રમ દૂર થવાથી કન્યાકુમારી શહેરની પ્રાપ્તિ ઝડપથી થાય છે. તેમ યોગીઓને તથાવિધ ભોગોપનાયક = વિષયસુખપ્રાપક કર્મસ્વરૂપ શ્રમ દૂર થવાથી મોક્ષનગરની પ્રાપ્તિ ઝડપથી થઈ શકે છે. જેમ મુસાફર થાકને દૂર કરવા માટે વિશ્રામ કરે છે તેમ યોગી પુરુષ ભોગપ્રાપક કર્મને હટાવવા માટે વિશ્રામ-નિદ્રાદિતુલ્ય દેવલોકને પ્રાપ્ત કરે છે. તે સ્વર્ગના ભવથી ભોગાવલી કર્મ દૂર થવાથી વિના વિલંબે માનવભવમાં ચારિત્રની સાધના કરીને મોક્ષને પ્રાપ્ત કરે છે. (૨૦/૩૦) १. मुद्रितप्रतौ 'योगिनां' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334