SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १४०८ • जन्मान्तरसंस्कारात् पुनः योगप्रवृत्तिः • द्वात्रिंशिका-२०/३० प्रायाः) योगानां' प्रवृत्तयो (=योगप्रवृत्तयः) भवन्ति । अक्षेपेणैव मोक्षपुरप्राप्त्युपपत्तेः तथाविधकर्मप्रबुद्धा यत्र ते विद्वान् सुषुप्तिं याति योगिराट् ।। - (याज्ञ.२२) इति याज्ञवल्क्योपनिषदुपदर्शितया रीत्या सद्दृष्ट्यव्याघातवतां प्रगे जाग्रतः पथिकस्य या निरन्तरा गतयः संवेगादिलक्षणाः तत्प्राया योगानां = चारित्रादियोगानां पुनः प्रवृत्तयो भवन्ति, प्रतिबन्धकविरहे सामग्र्याः कार्यमनुत्पाद्याऽनुपरमात् । इदमेवाभिप्रेत्य योगशास्त्रे → जन्मान्तरसंस्कारात्स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवनिरुपदेशमपि ।। (यो.शा.१२/१३) इत्युक्तं श्रीहेमचन्द्रसूरिभिः । एतेन → अनेकजन्मसंस्कारात् श्रद्धावान् मां प्रपद्यते - (म.गी.१११) इति महावीरगीतावचनमपि व्याख्यातम् । सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायाम् → एतज्जन्मकृतानां वा कर्मणां यादृशी स्मृतिः । अङ्किता जीवचित्ते स्यादासक्तिः स्याद्धि तादृशी ।। - (शं.गी.१९३) इति । तदुक्तं गुणानुरागकुलके अपि → जं अब्भसइ जीवो गुणं च दोसं च एत्थ जम्मम्मि। तं पावइ परलोए तेण य अब्भासजोएण ।। - (गुणा.कु.८) इति पूर्व(पृ.१२३५) उक्तमेव । युक्ततरञ्चैतत् । न हि शुद्धभावोपात्तं कर्म न शुद्धभावान्तरहेतुरिति सम्मतम् । तदुक्तं ललितविस्तरायां → शुद्धभावोपात्तं कर्म अवन्ध्यम्, सुवर्णघटायुदाहरणात् । एतदुदयतो विद्याजन्म, कारणाऽनुरूपत्वेन - (ल.वि. अन्नत्थ.पृ.८९) इति । यथोक्तं पञ्चवस्तुके अपि → परिसुद्धमणुट्ठाणं पुव्वावरजोगसंगयं जं तं । हेमघडत्थाणीयं, सया वि णिअमेण इट्ठफलं ।। (पं.व.१६०६) इति। प्रकृते → सग्गं तवेण सव्वो वि पावए, किंतु झाणजोएण । जो पावइ, सो पावइ परलोये सासयं लोयं ।। अइसोहणजोएणं सुद्धं हेमं हवेइ जह, तह य । कालाईलद्धीए अप्पा परमप्पओ हवदि ।। 6 (मो.प्रा.२३-२४) इति मोक्षप्राभृतश्लोकयुगलतात्पर्यमपि यथागममत्राऽनुयोज्यं शुद्धयोगस्वरूपहेतू-फलविभावननिपुणैः। एतावताऽपवर्गाऽप्रतिपन्थिनामेवाऽभ्युदयादीनामुपनायकत्वं योगप्रवृत्तावाधातुं समर्थस्यैव परमार्थतो योगाधिकारित्वं, न चेच्चरमशरीरीति फलितम् । एतेन → कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् । पूर्वकार्याऽविरोधेन स कार्यं कर्तुमर्हति ।। - (वा.रा.५ ।४१ ।१५) इति वाल्मीकिरामायणवचनमपि व्याख्यातम् ।। . इत्थञ्च अक्षेपेणैव = द्रुतमेव मोक्षपुरप्राप्त्युपपत्तेः, प्रशस्तरागादिविलये सति तथाविधकर्मरूपश्रमाभावेन = भोगाद्युपनायक-निकाचितकर्मलक्षणश्रमविरहेण तदपनयनार्थ-स्वापसमस्वर्भवेन = तादृशकर्मलશહેર તરફ ગતિ કરે તેમ આ વાત સમજવી. કહેવાનો આશય એ છે કે સ્વર્ગમાંથી મનુષ્ય ભવમાં આવ્યા બાદ સ્થિરાદિ દૃષ્ટિવાળા યોગીઓની થતી યોગસાધના દ્વારા ઝડપથી મોક્ષનગરની પ્રાપ્તિ સંગત થઈ શકે છે. કારણ કે જેમ મુસાફરને મુસાફરીનો શ્રમ દૂર થવાથી કન્યાકુમારી શહેરની પ્રાપ્તિ ઝડપથી થાય છે. તેમ યોગીઓને તથાવિધ ભોગોપનાયક = વિષયસુખપ્રાપક કર્મસ્વરૂપ શ્રમ દૂર થવાથી મોક્ષનગરની પ્રાપ્તિ ઝડપથી થઈ શકે છે. જેમ મુસાફર થાકને દૂર કરવા માટે વિશ્રામ કરે છે તેમ યોગી પુરુષ ભોગપ્રાપક કર્મને હટાવવા માટે વિશ્રામ-નિદ્રાદિતુલ્ય દેવલોકને પ્રાપ્ત કરે છે. તે સ્વર્ગના ભવથી ભોગાવલી કર્મ દૂર થવાથી વિના વિલંબે માનવભવમાં ચારિત્રની સાધના કરીને મોક્ષને પ્રાપ્ત કરે છે. (૨૦/૩૦) १. मुद्रितप्रतौ 'योगिनां' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy