________________
• कुशलाभ्यासानुबन्धक्रमेण मोक्षप्राप्तिः .
१४०९ रूपश्रमाऽभावेन तदपनयनार्थस्वापसमस्वभवेनाऽविलम्बादिति भावः ।।३०।। क्षणश्रमविनोदनिमित्तकनिद्रातुल्यदेवभवेन अविलम्बात् = कालक्षेपाऽभावात् । यथा कान्यकुब्जादिसामीप्येऽनवरतप्रयाणजनितश्रमाऽपगमे सति प्रगे पथिकानां निद्राऽनावश्यकतया ताजक् स्वेष्टकान्यकुब्जादिनगरप्राप्तिर्भवति तथाऽऽसन्नमुक्तीनामौदयिकभावाऽपगमे सति क्षीणप्रायकर्ममलतया दिव्यभवाऽविनाभाविकालक्षेपविरहेण स्वभूमिकोचितचारित्रादिप्रवृत्त्या झटिति शिवपुरप्राप्तिर्भवति इति भावः। प्रकृते च →
दिव्यभोगाऽवसाने च च्युत्वा त्रिदिवतस्ततः । उत्तमेन शरीरेणाऽवतरन्ति महीतले ।। दिव्यवंशे समुत्पन्ना नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः ।। ततो विवेकमाश्रित्य विरज्याऽशेषभोगतः । ध्यानेन ध्वस्तकर्माणः प्रयान्ति पदमव्ययम् ।।
(यो.शा.१०/२२-२४) इति योगशास्त्रकारिका अनुसन्धेया मनीषिभिः ।। एतेन → पुण्याच्च धनमवाप्नोति कीर्तिमिहैव तद्धनात् । परत्राऽपि स्वःसौख्यं च ह्यपवर्ग क्रमात्ततः ।।
(हिंगु.१।९) इति हिङ्गुलप्रकरणवचनमपि व्याख्यातम् । तदुक्तं संन्यासगीतायां अपि → धाचाररतः सत्त्वं वर्धयन् परमोन्नतिम् । ऐहिकीमामुष्मिकी च प्राप्य मोक्षं ततोऽश्नुते ।। - (सं.गी.२/२६) इति । → तेऽपि भुक्त्वा महाभोगान् मल्लोके पुनरत्र च । जातास्सद्यो विमुच्यन्ते पूर्ववासनयाऽन्विताः।। - (रा.गी.११/२०) इति रामगीतावचनमपि यथातन्त्रमत्राऽनुयोज्यम् । यथोक्तं वीरभद्रसूरिभिरपि आराधनापताकायां → जे वि उ जहण्णियं तेउलेसियाऽऽराहणं पवज्जंति। ते वि जहन्नेणं चिय लहंति सोहम्मदेविड्ढिं ।। भोगे अणुत्तरे भुंजिऊण तत्तो चुया सुमाणुस्से । इड्ढिमउलं चइत्ता चरंति जिणदेसियं धम्मं ।। - (आ.प.८५२-८५३) इति । तदुक्तं तत्त्वार्थसूत्रभाष्ये अपि → तत्र सुकृतकर्मफलमनुभूय स्थितिक्षयात् प्रच्युतो देश-जाति-कुल-शील-विद्या-विनय-विभव-विषयविस्तरविभूतियुक्तेषु मनुष्येषु प्रत्यायातिमवाप्य पुनः सम्यग्दर्शनादिविशुद्धबोधिमवाप्नोति । अनेन सुखपरम्परायुक्तेन कुशलाऽभ्यासाऽनुबन्धक्रमेण परं त्रिर्जनित्वा सिध्यति - (त.सू. १०/७ भा.पृष्ठ-३२५) इति । तत्र = सौधर्मादिषु कल्पेषु, शिष्टं स्पष्टम् । → ततो ठाणाई देवेऽपीहेज्जा । तं जहा- (१) माणुस्सगं भवं, (२) आरिते खेत्ते जम्म, (३) सुकुलपच्चायातिं (स्था. ३।३।१८४) स्थानाङ्गसूत्रतात्पर्यमप्येतदर्थानुपात्येवाऽवगन्तव्यम् । इत्थमेव लवसत्तमादिदेवानामेकावतारित्वाद्युपपत्तेः । तदुक्तं देवेन्द्रस्तवप्रकीर्णके → जत्थ अनुत्तरगंधा तहेव रूवा अणुत्तरा सद्दा । अच्चित्तपोग्गलाणं रसो य फासो य गंधो य ।। पप्फोडियकलिकलुसा पप्फोडियकमलरेणुसंकासा । वरकुसुममहुकरा इव सुहमयरंदं निघोट्टंति ।। वरपउमगब्भगोरा सव्वेते एगगब्भवसहीओ । गब्भवसहिविमुक्का सुंदरि ! सुक्खं अणुहवंति ।।
6 (दे.स्त.२२२-२२४) इति ।
एतेन → यद्यन्तरा विपद्येत ज्ञानयोगार्थमुद्यतः । योगस्योद्योगमात्रेण रुद्रलोकं गमिष्यति ।। अनुभूय सुखं तत्र स जातो योगिनः कुले । ज्ञानयोगं पुनर्लब्ध्वा संसारमतिवर्तते ।। 6 (शि.पु.वायुसंहिता-३३-३४) इति शिवपुराणवचनमपि व्याख्यातम् । अत एव संन्यासगीतायां → विचित्रेयं कर्मशक्तिर्ययैकः सात्त्विकाऽऽश्रितः। नीयते हि पदं मुक्तेर्नरः संशुद्धमानसः ।। - (सं.गी.४/१२) १. 'स्वभावे' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org