________________
• व्यवहारे सुप्त आत्मनि जागर्ति •
१४०७ तादृशीति । तादृशि = स्वर्गगतिनिबन्धने सरागचारित्रदशाभाविनि' औदयिके भावे प्रशस्तरागादिरूपे विलीने पुनर्योगिनां जाग्रतो या निरन्तरा गतयस्तत्प्राया (=जाग्रन्निरन्तरगतियोगरूपस्य चारित्रस्य मोक्षहेतुत्वं तदवान्तरजातीयस्य च स्वर्गहेतुत्वमिति वैजात्यद्वयं वा कल्पनीयमि'त्यन्तं विवरणं प्रतिमाशतकवृत्तौ (प्र.श.९३) दृश्यम् । ___ क्षीरनीरन्यायेन सङ्कीर्णभावानां कथञ्चिदभेदस्य सुवचत्वात् । अनयैव दिशा ‘घृतं दहती'तिवत् पूर्वसंयमः स्वर्गहेतुरिति व्यवहारेण प्रतिपादनात् । तत्त्वतस्तु प्रशस्तरागस्यैव स्वर्गहेतुत्वात्, चारित्रस्य तु मोक्षहेतुत्वात् मोक्षहेतोः संसारहेतुत्वाऽयोगादिति सूक्ष्ममीक्षणीयमिति व्यक्तं गुरुतत्त्वविनिश्चयवृत्तौ (गु. त. वि.१/९८ वृत्ति) । ___ वस्तुतस्त्वौदयिकभावानामपि प्रशस्तत्वे क्षायोपशमिकभाववदुपकारकत्वमेव । तदुक्तं वैराग्यकल्पलतायां → शस्तैरौदयिकैर्भावैः क्षायोपशमिकैरिव । नीयन्ते मुनयो अ॒र्ध्वमप्रशस्तैरधः पुनः ।। - (वै. क.स्त.५/१२९१) इति । एतेन → कलौ सरागधर्मस्य प्रवृत्तिर्मोक्षकारिका - (कृ.गी.२२१) इति कृष्णगीतावचनमपि व्याख्यातम् । इत्थञ्च तथाविधभावनायोगाद्युपबृंहितचारित्रपालनाऽऽहितसंस्कारवशात् स्वर्गलोकेऽपि तेषां निग्रंथगुरुबहुमानाऽनशनिभक्ति-कृतज्ञता-केवलिपूजा-जिनाऽनाशातनाविनयादिगुणगणाऽनुबन्धोऽप्यनाविल एव । इदमेवाभिप्रेत्य चन्द्रकवेध्यकप्रकीर्णके → देवा वि देवलोए निच्चं दिव्वोहिणा वियाणित्ता । आयरियाण सरंता आसन-सयणाणि मुच्चंति ।। देवा वि देवलोए निग्गंथं पवयणं अणुसरंता । अच्छरगणमज्झगया आयरिए वंदया एन्ति ।।
6 (चं.वे.३३-३४) इत्युक्तम् । तदुक्तं संस्तारकप्रकीर्णके च → देवा वि देवलोए भुञ्जन्ता बहुविहाई भोगाइं । संथारं चिन्तन्ता आसण-सयणाई मुञ्चन्ति ।। - (सं.प्र.२७) इति । सारावलीप्रकीर्णकेऽपि → देवा देवीहिं समं चारण-विज्जाहरा य सिद्धाय । पूर्व करन्ति तुट्ठा केवलनाणिस्स साहुस्स ।। 6 (सा.प्र.११) इत्युक्तमित्यवधेयम् । तथा → जिणदेवछंदओ जिणघरंमि पडिमाण तत्थ अट्ठसयं । दो चमरधरा खलु पुरओ घंटाण अट्ठसयं ।। - (द्वी.सा.प्र.२००) इति द्वीपसागरप्रज्ञप्तिदर्शितजिनगृहादौ भक्तिसमापूरितहृदयतयाऽपि तेषां तत्र शुद्धिरनाविलैव ।।
इत्थं निश्चयनयतः सरागचारित्रदशाभाविनि = ससङ्गचारित्राऽवस्थाभाविनि स्वर्गगतिनिबन्धने तादृशप्रशस्तरागे स्वर्गादिफलरूपेण विलीने सति पुनः विशुद्धयोगसंस्कारप्रभावात् → जो सुत्तो ववहारे सो जोई जग्गए सकज्जम्मि । जो जग्गदि ववहारे सो सुत्तो अप्पणो कज्जे ।। (मो.प्रा.३१) इति मोक्षप्राभृतदर्शितया रीत्या योगित्वाऽऽक्रान्तानां = योगिनां → या निशा सर्वभूतानां तस्यां जागर्ति संयमी - (भ.गी.२/६९) इति भगवद्गीतोक्तया, → यत्र लुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी ।
1 ટીકાર્ચ - સરાગ ચારિત્રની અવસ્થામાં જે પ્રશસ્ત રાગાદિ સ્વરૂપ ઔદયિક ભાવ હોય છે તે દેવગતિનું કારણ છે. તેવો ઔદયિક ભાવ વિલીન થતાં યોગીઓને યોગની પ્રવૃત્તિ થાય છે. જેમ કન્યાકુમારી તરફ રોજ ગમન કરતો મુસાફર રાતની ઊંઘ પૂરી કરીને સવારે જાગે અને જાગેલો તે સતત કન્યાકુમારી १. 'दशावति (दशाभाविनि) औद...' इति मुद्रितप्रतौ पाठः । हस्तादर्श ‘दशावति' इति पाठो नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org