SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १४०६ • सराग- वीतरागचारित्रफलमीमांसा • चरणस्य = चारित्रस्य उपजायते ।। २९ ।। तादृश्यौदयिके भावे विलीने योगिनां पुनः । जाग्रनिरन्तरगतिप्राया योगप्रवृत्तयः ।। ३० ।। ' चारित्रस्य विघात उपजायते' इत्युक्तम्, अन्यथा 'सम्यग्दर्शनस्य विघात उपजायत' इत्युक्तं स्यात् । सम्मतञ्चेदं परेषामपि । अत एव शम्भुगीतायां किन्तु शुद्धस्य भावस्य साहाय्यात् कार्यकारिणः । भाग्यवन्तो न सज्जन्ते विषयेषु कदाचन ।। ← (शं.गी. १/१०७ ) इत्युक्तम् ।।२० / २९ ।। व्यापन्नदर्शनानां ग्रैवेयकोत्पादस्येव स्थिरादिदृष्टिमतां स्वर्गगमनस्य तथाविधौदयिकभावयोगेन चारित्रव्याघातकारित्वेऽपि न विपाकविरसत्वमिति दर्शयन्नाह - ' तादृशी 'ति । यद्यपि चारित्रस्य मोक्षहेतुत्वमेव तथापि सरागचारित्रदशाभाविनि प्रशस्तरागादिरूपे औदयिके भावे स्वर्गजनकता सम्भवति । यद्वा चारित्रस्य सरागत्व - वीतरागंत्वाभ्यां स्वर्ग- मोक्षोभयहेतुत्वं सम्भवति । अत एव जति णं भंते ! संजमे अणण्यफले, तवे वोदाणफले, किंपत्तियं णं भंते ! देवा देवलोएसु उववज्जंति ? पुव्वतवेणं पुव्वसंजमेणं कम्मियाए संगियाए अज्जो ! देवा देवलोएसु उववज्जंति ← (भग. २/५/१०९) इत्येवं भगवत्यां पूर्वतपःपूर्वसंयमयोः स्वर्गहेतुत्वमुक्तम् । यद्वा रागसाहित्य - राहित्याभ्यां स्वर्ग-मोक्षजनकताऽवच्छेदकरूपभेद एव चारित्रेऽवसेयः । यद्वा चारित्रत्वेनैव मोक्षहेतुताऽस्तु सङ्कोचे मानाऽभावात्, सरागता - कालीनप्रशस्तसङ्गादेव स्वर्गोत्पत्तेः । द्वात्रिंशिका - २०/३० वस्तुतः सरागचारित्रस्य स्वर्गहेतुत्वं 'सविशेषणी हि विधि-निषेधो विशेषणमुपसङ्क्रामतः सति विशेष्यबाधे' इति न्यायेन रागमात्र एव पर्यवस्यति । एतेन पुव्वतवसंजमा होंति रागिणो, पच्छिमा अरागस्स । रागो संगो वृत्तो, संगा कम्मं भवे तेणं ।। ← (नि.भा. ३३३२) इति निशीथभाष्यवचनमपि व्याख्यातम् । यद्वा मोक्षोद्देशेन पाल्यमानस्य चारित्रस्य मोक्षहेतुत्वमेव, स्वर्गस्य चानुद्देश्यत्वान्न फलत्वम्, कर्मांशप्रतिबन्धाच्च न तदा मोक्षोत्पाद: । ततो गत्यन्तरजनकाऽदृष्टाऽभावादर्थत एव स्वर्गोत्पत्तिरित्यवसेयम् । सर्वे एते सदादेशाः, भगवदनुमतविचित्रनयाश्रितमहर्षिवचनानुयायित्वादिति स्याद्वादकल्पलतोक्तरीत्या (स्या. क. १/२२) विभावनीयम् । सरागत्व-वीतरागत्वयोः तु निरतिचारेऽपि चारित्रे विद्यमानतयैकस्मिन्नुभयहेतुत्वमेव, न तु केवलं मोक्षहेतुत्वमित्यपि वदन्ति । प्रकृते च 'निश्चयनयपर्यालोचनायां सरागचारित्रकालीना योगा एव स्वर्गहेतवो न चारित्रम् । घृतस्य दाहकत्ववद् व्यवहारनयेनैव चारित्रस्य स्वर्गजनकत्वोक्ते’रित्यारभ्य ‘स्थिरકરવા છતાં તેના પ્રયાણનો પ્રવાસનો ભંગ થતો નથી. (રાત્રે ચાલવાનું બંધ કરીને સૂવા માત્રથી તેણે પ્રવાસ બંધ કર્યો તેમ નથી કહી શકાતું. કારણ કે તે સવારે ઉઠીને આગળ ચાલવાનો જ છે.) બરાબર આ જ રીતે સ્થિરાદિ દૃષ્ટિને પામેલા યોગીઓ દેવલોકમાં જન્મે તેના લીધે ચારિત્રનો અભાવ થાય છે. પરંતુ ચારિત્રનો આ વ્યાઘાત મુસાફરની વચલા ગામમાં થતી નિદ્રા સમાન = વિશ્રામતુલ્ય છે. કેમ કે તેનાથી મોક્ષનગ૨માં જવા માટે કરેલા પ્રયાણનો ભંગ થતો નથી. (૨૦/૨૯) = ગાથાર્થ :- તથાવિધ ઔદયિક ભાવ વિલીન થતાં યોગીઓની ફરીથી યોગપ્રવૃત્તિ શરૂ થાય છે કે જે જાગતા માણસની નિરંતર ગતિતુલ્ય હોય છે. (૨૦/૩૦) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy