________________
• मित्रादि-स्थिरादिदृष्टिविभागहेतूहनम् •
१४०५ प्रयाणभङ्गाऽभावेन निशि स्वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ।।२९।।
प्रयाणेति । प्रयाणस्य = कन्यकुब्जादावनवरतगमनलक्षणस्य भङ्गाभावेन (=प्रयाणभङ्गाभावेन) निशि = रात्रौ स्वापसमः पुनर्विघातः = प्रतिबन्धः 'दिव्यभवतः२ = स्वर्गजन्मनः सकाशात् यतनसेवनं, परणं तु लब्धदृष्टिपातः, मरणतुल्यपीडनिभं निदानादिलदार तिवारमालिन्यवाहुल्यं, विशिष्ट तरस्वास्थ्यसुखलाभश्चाऽग्रेतनदृष्टिलाभ इत्यवगन्तव्यम्। मित्रादिदृष्टिप्रतिपातकालेऽवेद्यसंवेद्यपदमपि प्रभवत्येव । प्रकृते → तमः पतनकाले हि प्रभवत्यपि भास्वतः -- (ह.पु.१४/४०) इति हरिवंशपुराणोक्तिरपि पूर्वोक्ता(पृ.१२०२) स्मर्तव्या । निरपाय आसन्नभव्यस्तु सुगुरूपदेशवर्ती प्रतिपातमन्तरेण मित्रादितः तारादिलाभसन्मुखमभिधावत्येवाऽनवरतम् ।
तदपेक्षया मित्रादि-स्थिरादिदृष्टिविभागव्यवस्था ह्येवं बोध्या । तथाहि- आद्यासु चतसृषु दृष्टिषु देहेन्द्रियादिप्रतिश्रोतोवृत्त्यनुविद्धो बोधो भवति, अन्त्यासु त्वन्तर्गमनाऽनुविद्धो बोधः प्रकृष्यते । मित्राद्यासु चतसृषु शास्त्र-गुर्वाधुपदेश-तर्काऽनुमानाऽनुप्रेक्षादिसहकृता परोक्षा तत्त्वश्रद्धा भवति, अग्रिमासु चाऽपरोक्षा सूक्ष्मतत्त्वश्रद्धा समुत्कृष्यते । मित्रादिषु योगिभिः आत्मप्रियत्वावस्थाऽनुभूयते स्वभूमिकोचितकुशलानुष्ठाने परोक्षश्रद्धया प्रवर्तनात् । एतेन → कायेन सुचरितं चरन्ति, वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति तेसं पियो अत्ता - (सं.नि.कोसलसंयुत्त-१।४।११५-पृ.८८) इति संयुक्तनिकाये प्रियसूत्रं व्याख्यातम् । स्थिराद्यासु चतसृषु दृष्टिषु वर्तमानैः योगिभिः आत्मरक्षितत्वदशाऽनुभूयते, प्रत्यक्षश्रद्धागर्भसूक्ष्मेक्षिकया तथाप्रवर्तनात् । एतेन → कायेन सुचरितं चरन्ति, वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति तेसं रक्खितो अत्ता - (सं.नि. ११।५।११६-पृ.८९-कोसलसंयुक्त) इति संयुक्तनिकाये आत्मरक्षितसूत्रमपि व्याख्यातम् । आद्यासु चतसृषु कर्तृत्व-भोक्तृत्वभावपुरस्सरो धर्मपुरुषार्थ उदयते तदुत्तरासु चाऽसङ्गसाक्षिभावोपहितो मोक्षपुरुषार्थः प्रवर्धते । आदिमासु चतसृषु विवेकबोधाऽनुसारेण प्रवृत्तिशुद्धिः प्रधानतामापद्यते स्थिराद्यासु च चित्तवृत्तिपरिशुद्धसंवर्धनं मुख्यतामाबिभर्ति । मित्रादिचतुष्के सामान्यतो निरनुबन्धसकामकर्मनिर्जरा सम्पद्यते स्थिरादिषु च सानुबन्धा प्रबलतरसकामनिर्जराऽनन्तगुणशुद्ध्या परिवर्धत इत्यादिकं यथागममूहनीयमवहितमानसः ।।२०/२८ ।। ___केवलं परभवे दिव्यभावतः स्थिरादिदृष्टिमतां विश्रामस्थानीयः चारित्रव्याघातस्सम्भवतीति दर्शयन् योगदृष्टिसमुच्चय(यो.दृ.स.२०)कारिकासंवादमावेदयति- 'प्रयाणे'ति । सुगमो व्याख्यार्थः । नवरं पूर्वं शुद्धभावेन सदनुष्ठानकरणान्नैव स्वर्गेऽपि समुपनतभोगादिसामग्र्यां तथाविधाऽऽसक्तिरिति द्योतनार्थं
હ દેવના ભવથી ચારિત્રમાં વ્યાઘાત અબાધક જ ગાથાર્થ :- દેવના ભવના કારણે થતો ચારિત્ર સંબંધી વ્યાઘાત = અભાવ રાત્રિની નિદ્રાતુલ્ય છે. કારણ કે તેમાં પ્રયાણનો ભંગ થતો નથી. (૨૦/૨૯)
ટીકાર્ય :- જેવી રીતે કન્યાકુમારી વગેરે દૂરના નગરમાં જતો કોઈ મુસાફર સતત રોજ પ્રયાણ કરે તો પણ તેને રાતે વિશ્રામ લેવા વચલા ગામ વગેરેમાં રોકાવું પડે છે. વચલા ગામમાં રાતવાસો १. मुद्रितप्रतौ सर्वत्र हस्तादर्श च 'पुनर्दिव्य...' इत्यशुद्धः पाठः । २. हस्तादर्श 'दिव्यभव्यत' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org