________________
• विषकण्टकविद्धपादोदारणम् •
द्वात्रिंशिका - २०/२८
योगाचार्या एवात्र प्रमाणम् । तदुक्तं- " प्रतिपातयुताश्चाऽऽद्याश्चतस्रो नोत्तरास्तथा । सापाया अपि चैतास्ताः प्रतिपातेन नेतराः ।। " ( योगदृष्टि - १९) इति ।। २८ ।।
१४०४
लक्षणविकाराऽसम्भवात् । प्रत्युत अन्नो न कुणइ अहियं हियं पि अप्पा करेइ न हु अन्नो । अप्पक सुह- दुक्खं भुंजसि ता किस दीणमुहो ? ।। ← (वैराग्यशतक - २७) सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमेत्तं परो होइ ।। (समरादित्यकथा - भव - २ पृ. १६०, सम्बोधसप्ततिका- १२० ) इत्यादिभावनया विशुद्धतर एवाऽऽशयस्सञ्जायते । योगाचार्या एव अत्र = स्थिरादिदृष्टिमतां दुर्गत्या दावप्याशयाऽविकृतौ प्रमाणं = आलम्बनम् ।
=
प्रकृते योगदृष्टिसमुच्चयसंवादमाह - 'प्रतिपाते 'ति । अस्य व्याख्या त्वेवम् प्रतिपातयुताः भ्रंशोपेताः । आद्याश्चतस्रः = दृष्टयो मित्रादिरूपाः 'एता अपि च ' प्रतिपातयुता अपि तथाकर्मवैचित्र्यात्, न तु प्रतिपातयुता एव, ताभ्यस्तदुत्तरभावादिति । 'नोत्तरास्तथा' न स्थिराद्यास्तेन प्रकारेण प्रतिपातयुताः, यतः एवं 'सापाया अपि दुर्गतिहेतुत्वेन एतास्ता एता एव । कथमित्याह - प्रतिपातेन भ्रंशेन नेतराः न स्थिराद्याः सापाया इति । आह- कथं श्रेणिकादीनामेतदप्रतिपातादपायः ? उच्यते- एतदभावोपात्तकर्मसामर्थ्येन । अत एवोक्तं प्रतिपातेन तु सम्भवमात्रमधिकृत्य 'सापाया अपि तथापि प्रायोवृत्तिविषयत्वात्सूत्रस्यैवमुपन्यासः । अथवा सदृष्ट्यघाते सत्य (प्य) पायोऽप्यनपाय एव वज्रतन्दुलवत्पाकेन तदाशयस्य कायदुःखभावेऽपि विक्रियाऽनुपपत्तेरित्येवमुपन्यासः । योगाचार्या एवाऽत्र प्रमाणमिति । अतः प्रतिपातेन नेतरा इति स्थितम् ← (यो. दृ.स. १९ वृत्ति) इति ।
=
प्रकृते विषकण्टकविद्धपादोदाहरणमनुयोज्यम् । तथाहि कश्चिद् दीर्घकालतो विषमतरविषकण्टकविद्धपादः ज्ञातिजनादिसहायेनोपसुवैद्यमानीतः महता शस्त्रक्रियासंरम्भेणोद्धृतविषशल्यः सन् “ (१) व्रणसंरोहणकारि पथ्यमेव त्वया भोक्तव्यम्, अन्यथा कण्टकीयविषलवदोषविजृम्भणेन व्रणोत्कोपोऽवश्यम्भावी, (२) यथावसरमौषधसम्पृक्तजलेन व्रणभागः प्रक्षालनीयः, (३) व्रणप्रक्षालनोत्तरं तत्र संरोहणौषधलेपः प्रदातव्यः, (४) अधिकतरं नाऽटनीयम्, (५) आतप - पवनबहुलस्थान - सर्वस्नान- व्यायामविशेषादिः व्रणप्रकोपकारी परिहर्तव्यः” इत्येवं सुवैद्येनोपदिष्टो गृहमागत्य ज्ञातिजननिवारितोऽपि तदुपदेशभङ्गकारी मरणं तत्तुल्यपीडनं वाऽऽपद्यते । तदुपदेशवर्ती तु व्रणाऽपायपरिमुक्तः सन् सदैव विशिष्टतरस्वास्थ्यसुखभाजनं भवति । तथैव प्रकृतेऽपि योज्यम् । विषकण्टकलक्षणं भवाभिनन्दित्वं ज्ञातिजनतुल्यः कल्याणमित्रादिः, सुवैद्यसमः सद्गुरुः, शस्त्रक्रियासंरम्भोपमं सदुपदेशादिना वक्ष्यमाण ( द्वा.द्वा.२१/२, पृ.१४२० + २२/२, पृ.१४७६) यम-नियमादिप्रदानं, पथ्यभोजनसदृशं पूर्वोक्त ( द्वाद्वा. १२/१ भाग - ३, पृ. ८३५) पूर्वसेवापरिपालनं, विषदोषस्थानीयोऽविद्यादोषः, व्रणोत्कोपजातीयं दीर्घतरभवाटवीविभ्रमणं, औषधसम्पृक्तजलस्थानाभिषिक्तः प्रागुक्ता ( द्वा. द्वा. १८/२, भाग-४ पृ. १२२१, १८/९ पृ. १२३२)ऽध्यात्मानुविद्धभावनायोगः, लेपसमानं वक्ष्यमाण(द्वा.द्वा. २३/२४ भाग-६, पृ. १५८९) लक्षणं सदनुष्ठानं, अटनसदृक्षं विषयोपभोगरतिस्मृति-सङ्कल्पादिकरणं, आतप-पवनादिबहुलस्थानादिसदृक् प्रागुक्ता ( द्वाद्वा. ७/३१ भाग - २, पृ. ५३४ ) ऽना
=
યોગાચાર્યો જ આ બાબતમાં પ્રમાણભૂત છે. તેથી તો યોગદૃષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે ‘પ્રથમ ચાર યોગદૃષ્ટિઓ પતનયુક્ત છે. તથા પાછલી ચાર યોગદૃષ્ટિ પતન પામનારી નથી. પતનના કારણે પ્રથમ ચાર યોગદૃષ્ટિઓ અપાયવાળી પણ છે. પણ છેલ્લી ચાર દૃષ્ટિઓ અપાયવાળી નથી.' (૨૦/૨૮)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org