SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ • स्थिरादीनामप्रतिपातमीमांसा • १४०३ = न तु सपाता एव, ताभ्यस्तदुत्तरभावादिति । तथोत्तराः = चतस्रः स्थिराद्या दृष्टयो भिन्नग्रन्थेस्तत्त्वतः परमार्थतश्च निरपायाः । श्रेणिकादीनामेतदभावोपात्तकर्मसामर्थ्येन प्रतिपातेऽपि हि तस्याऽपायस्याऽपि सदृष्ट्यविघातेन तत्त्वतोऽनपायत्वाद्वज्रतण्डुलवत्पाकेन तदाशयस्य कायदु:खभावेऽ विक्रियाऽनुपपत्तेः । याज्ञवल्क्यस्मृतिप्रभृतिवचनोपदर्शितनिमित्ततो भ्रंशयोगेन अधःप्रतिपातसम्बन्धेन सपाताश्च मित्राद्याः चतस्रो भवन्ति । प्रकृते प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ← (पं.तं. २/४ ) इति पञ्चतन्त्रवचनमपि संवदति । स्वभ्यस्तमित्रादित = इदञ्च सम्भवमधिकृत्योक्तं, न तु सपाताः प्रतिपातयुता एव, ताभ्यः = एव तदुत्तरभावात् तारादिदृष्टिलाभादिति । 'काममपयातु रसाऽसृग्मांस-वसाऽस्थि-मज्जा-वीर्य-चर्मशरीरादिकं किन्तु समग्रेण पुरुषबलेन पुरुषवीर्येण पुरुषकारेण पुरुषपराक्रमेण पुरुषस्थाम्ना पुरुषोत्साहेनाऽनुपादायाऽपवर्गं नोपरमे कदापि कुत्रापि कथमपी'ति दृढनिश्चयशालिनां मिथ्यादृशामपि भवितव्यतापरिपाकादिसहकारेण उत्तरोत्तरबलवद्दृष्टिलाभस्याऽनपलपनीयत्वात् । स्थिराद्याश्च चतस्रः परमार्थतो निरपायाः, तदवबोधस्याऽतिविमलस्य प्रवर्धमानतरपरिणामेनाऽप्रतिपातित्वात् । श्रेणिकादीनां तु एतदभावोपात्तकर्मसामर्थ्येन स्थिरादिदृष्टिलाभपूर्वकालबद्धकुकर्मोदयप्रभावेण दुर्गतौ प्रतिपातः सञ्जातः । सम्यग्ज्ञानपूर्वकालबद्धकर्मणः सम्यग्ज्ञानोदयानन्तरमपि स्वफलजननसामर्थ्यं परैरपि स्वीक्रियते एव । तदुक्तं परैः अध्यात्मोपनिषदि ज्ञानोदयात् पुराऽऽरब्धं कर्म ज्ञानान्न नश्यति । अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ।। ← ( अध्या. ५३ ) इति । किन्तु तेषां दुर्गतौ प्रतिपातेऽपि हि तस्य = नरकादिगमनलक्षणस्य अपायस्य व्यवहारतः प्राप्तस्य अपि सदृष्ट्यविघातेन निश्चयतः अनपायत्वात् । पाकेन = विजाती तत्त्वगोचरसूक्ष्मविमलदर्शनाऽव्याघातकत्वेन तत्त्वतः याऽग्निसंयोगेन वज्रतण्डुलवत् विक्लित्तिशून्य-वज्रमयतण्डुलस्येव तदाशयस्य = कायदुःखभावेऽपि पाकसदृशेनाऽतिदुःसहकायिकदुःखकोटिना विक्रियाऽनुपपत्तेः श्रेणिकादिपरिणामस्य अनन्ताऽनुबन्धिक्रोधादि = = = = = = = જીવને પ્રથમ ચાર દૃષ્ટિ અટકાવી શકતી નથી.) માટે પ્રથમ ચાર દૃષ્ટિ અપાયયુક્ત તથા કર્મની વિચિત્રતાના કારણે પ્રથમ ચાર દૃષ્ટિમાં રહેલા જીવો તે-તે દૃષ્ટિથી ભ્રષ્ટ પણ થઈ શકે છે. આમ ભ્રંશના યોગે કરીને પ્રથમ ચાર દૃષ્ટિ પતનયુક્ત કહેવાય છે. પરંતુ ‘પ્રથમ ચાર દૃષ્ટિ પતનવાળી જ હોય' તેવો કોઈ નિયમ નથી. કારણ કે તે દૃષ્ટિમાંથી જ આગળની નવી નવી યોગદૃષ્ટિઓનો જન્મ થાય છે. तथो. । तथा स्थिरा वगेरे छेटली यार दृष्टिमो थिमेट हरनारने होय छे. परमार्थथी छेल्ली यार યોગદૃષ્ટિઓ નિરપાય છે. શ્રેણિક રાજા વગેરે ક્ષાયિક સમ્યગ્દષ્ટિ જીવોનું દુર્ગતિમાં ગમન થયું હતું તે સ્થિરાદિ દષ્ટિની ગેરહાજરીમાં ઉપાર્જન કરેલા ક્લિષ્ટ કર્મના સામર્થ્યથી જાણવું. તેમ છતાં નરકગમનસ્વરૂપ તે અપાય પણ તેમની સષ્ટિમાં = યોગદિષ્ટમાં વ્યાઘાત ન કરવાના લીધે પરમાર્થથી અપાયસ્વરૂપ નથી રહેતો. જેમ વજ્રના ચોખાને પકવવામાં આવે તો પણ પાકથી = અગ્નિસંયોગથી તે સીઝતા નથી. તેમ નરકમાં કાયિક દુ:ખ હોવા છતાં શ્રેણિક મહારાજા વગેરેનો આશય વિકૃત થતો નથી. नाऽप्रति स हि ..' इत्यशुद्धः पाठः । १. मुद्रितप्रती 'सामर्थ्ये हि तस्याऽपा..' इत्येवं त्रुटितः अशुद्धश्च पाठः । पाटणहस्तप्रतौ २. हस्तादर्शविशेषे च 'प्रतिसहि..' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy