________________
१४०२
• ज्ञानदादिभूमिकासमवतारविचारः . द्वात्रिंशिका-२०/२८ तत्स्थानां तत्प्रतिबद्धवृत्तीनां (=अद्वेषादिगुणस्थानां) क्रमेणैषा = दृष्टिः सतां भगवत्पतञ्जलि-भदन्तभास्करादीनां योगिनां मता = इष्टा ॥२७॥ आद्याश्चतस्रः 'सापायपाता मिथ्यादृशामिह । तत्त्वतो निरपायाश्च भिन्नग्रन्थेस्तथोत्तराः ॥२८॥
आद्या इति। आद्याश्चतस्रो = मित्राद्या दृष्टय इह = जगति मिथ्यादृशां भवन्ति । सापायपाता = दुर्गतिहेतुकर्मबलेन तन्निमित्तभावादपायसहिताः। कर्मवैचित्र्याद् भ्रंशयोगेन सपाताश्च । तु नैव काऽपि बाधाऽस्माकमनेकान्तवादिनाम् । एवमेव बौद्धसम्मताऽष्टाङ्गयोग-वैदिकशुभेच्छादिकर्मयोगसमवतारेऽपि तत्राऽवगन्तव्यम् ।
प्रकृतसप्तविधज्ञानभूमिकासु ज्ञानदा न्यायदर्शनानुसारेण, संन्यासदा वैशेषिकतन्त्राऽनुसारेण, योगदा योगदर्शनाऽनुसारेण, लीलोन्मुक्तिः साङ्ख्यदर्शनानुसारेण, सत्पदा कर्ममीमांसादर्शनानुसारेण, आनन्दप्रदा उपासनामीमांसातन्त्रानुसारेण, परात्परा च ब्रह्ममीमांसानुसारेण राजयोगसंहितायां दर्शितेत्यवधेयं बहुश्रुतैः ।
प्रकृतार्थे → योगभेदसमूहोऽपि चिदानन्दप्रकाशने । हेतुरेवं परिज्ञाय मा मुहः साधनेष्वपि ।। योगसाधनभेदेषु धर्मभेदेषु च क्वचित् । ज्ञानिनो नैव मुह्यन्ति सम्यग्विज्ञानशक्तितः ।। - (अध्या.गी. ६१/६२) इति अध्यात्मगीतावचने स्मर्तव्ये । तत्प्रतिबद्धवृत्तीनां = अद्वेषादिगुणसंलग्नाऽध्यवसायप्रवाहाणां क्रमेण = आनुपूर्व्या दृष्टिः = मित्रादियोगदृष्टिः भगवत्पतञ्जलि-भदन्तभास्करादीनां आदिपदेन बन्धुभगवद्दत्तादीनां च योगिनां इष्टा । यथैवेयं व्यवस्था तथैवाने तत्तदृष्टौ दर्शयिष्यते ।।२०/२७ ।।
एता विभागद्वयेन विभजति- 'आद्या' इति । दुर्गतिहेतुकर्मबलेन = नरक-तिर्यग्गत्यादिलक्षणाऽपायहेतुभूतकर्मबन्धकरणप्रभावेन तन्निमित्तभावात् = नरकादिदुर्गतिनिमित्तत्वाद् अपायसहिताः → विधिरनतिक्रमणीयः - (प्र.ना.२ ११) इति प्रतिमानाटकादिवचनात् कर्मवैचित्र्यात् = आद्यदृष्टिचतुष्कवर्तिजीवबद्धकुकर्मोदयस्य विचित्रत्वाद्, यद्वा → प्रायः सत्पुरुषोऽप्यनर्थसमये बुढ्या परित्यज्यते - (शु.स. पृ.२१) इति शुकसप्ततिवचनानुसारेण कालवैचित्र्याद्, यद्वा → नियतिः सर्वभूतानां नियोगेष्विह कारणम् - (वा.रा.४।२५।४) इति वाल्मीकिरामायणवचनानुसारेण नियतिवैचित्र्याद् → विहितस्याऽननुष्ठानात् निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ।। - (या.स्मृ.३ ।५।२१९) इति
આ અદ્વેષ વગેરે આઠ ગુણોમાં જેમની ચિત્તવૃત્તિ પ્રતિબદ્ધ છે તેવા યોગી પુરુષોને આ આઠ યોગદષ્ટિ હોય છે. આવું ભગવાન પતંજલિ, ભદંત ભાસ્કર વગેરે યોગીઓને માન્ય છે. (૨૦/ર૭)
વિશેષાર્થ - મિત્રા વગેરે આઠ યોગદષ્ટિમાં ક્રમસર યમ, નિયમ વગેરે એક-એક યોગ પ્રાપ્ત થાય છે. ખેદ, ઉદ્વેગ વગેરે દોષો ક્રમશઃ નિવૃત્ત થાય છે. તથા અષ, જિજ્ઞાસા વગેરે ગુણો પ્રગટે छ. म पात प्रत्ये दृष्टिना नि३५९॥ quते ४२वाम मावशे. (२०/२७)
હ સાપાય - નિરપાય દૃષ્ટિની વિચારણા છે. ગાથાર્થ :- અહીં મિથ્યાષ્ટિઓને મળનારી પ્રથમ ચાર દૃષ્ટિ અપાયયુક્ત અને પતનયુક્ત છે. તથા પાછલી ચાર દૃષ્ટિ ભિન્નગ્રન્થિવાળા જીવને મળે છે કે જે પરમાર્થથી નિરપાય હોય છે.(૨૦૦૮)
ટીકાર્થ :- જગતમાં મિથ્યાષ્ટિ જીવો પાસે મિત્રા વગેરે આદ્ય ચાર દષ્ટિ હોઈ શકે છે. દુર્ગતિમાં લઈ જનારા કર્મના બળને લીધે દુર્ગતિમાં જવામાં આ દૃષ્ટિ નિમિત્ત બની શકે છે. (અર્થાત્ દુર્ગતિમાં જતા १. हस्तादर्श ‘सांपायापा...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ‘भवति' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org