________________
• अष्टविधज्ञानयोगादिसमवतारप्रतिज्ञा •
१४०१
भूमिका कर्मयोगस्य, शुभेच्छा प्रथमा स्मृता । विचारणा द्वितीया स्यात् तृतीया तनुमानसा ।। सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका । पदार्थाभाविनी षष्ठी सप्तमी तुर्यगा स्मृता ।। पूर्णज्ञानं विनैतासां राजयोगी भवेन्न हि ।
← (सं.गी. ९ / ३९-४१ ) इत्येवं याः सप्त कर्मयोगभूमिका दर्शिताः याश्च महोपनिषदि ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता । विचारणा द्वितीया तु तृतीया तनुमानसी ।। सत्त्वापत्तिश्चतुर्थी स्यात् ततोऽसंसक्तिनामिका । पदार्थाभावना षष्ठी सप्तमी तुर्यगा स्मृता ।।
← ( महो. ५ / २४-२५) इत्येवं ज्ञानयोगरूपेण सप्त भूमिका दर्शिताः तन्मध्ये प्रथमा मित्रा - तारयोः दृष्ट्योः विज्ञेया, अवशिष्टाश्च क्रमशो बलादिषु योज्याः यथागमं बहुश्रुतैः । यच्च शुभेच्छादिभूमिकासप्तकमुद्दिश्य वराहोपनिषदि भूमित्रयेषु विहरन् मुमुक्षुर्भवति । तुरीयभूम्यां विहरन् ब्रह्मविद् भवति। पञ्चमभूम्यां विहरन् ब्रह्मविद्वरो भवति । सप्तमभूम्यां विहरन् ब्रह्मविद्वरिष्ठो भवति ← ( वरा.४/१) इत्युक्तं तदप्यत्राऽग्रे च समवताराऽवसरेऽनुस्मर्तव्यं स्व-परसमयोक्तपदार्थसमवतारकामिभिः । यथा चैतत्सम्भवस्तथा दर्शयिष्यामो यथास्थानमग्रे । एवमेव
प्रथमा भूमिका नामपरा रूपपराऽपरा । स्याद्विभूतिपरा नाम्ना तृतीया भूमिका मता || तथा शक्तिपरा नाम चतुर्थी भूमिका भवेत् । एवं गुणपरा ज्ञेया भूमिका पञ्चमी बुधैः ।। षष्ठी भावपरा ज्ञेया, सा स्वरूपपराऽन्तिमा । पूर्णज्ञानं विनैतासां राजयोगी भवेन्न हि ।।
← (सं.गी. ९ / ४२-४४) इत्येवं संन्यासगीतायां याः सप्त उपासनाभूमिका दर्शिताः तन्मध्ये प्रथमा नामपरा मित्रा - तारयोः, अवशिष्टाश्चाऽभिधानमात्रप्रतीता अवशिष्टासु बलादिदृष्टिसु यथातन्त्रमनुयोज्याः स्व-परसमयवेदिभिर्गम्भीरधिया । प्रकृते उक्तयो ह्यर्थान्तरसङ्क्रान्ता न प्रत्यभिज्ञायन्ते स्वदन्ते च ← ( का .मी.अ. ११) इति काव्यमीमांसावचनमनायासेन स्मृतिगोचरीभवति ।
किञ्च, संन्यासगीतायां →
ज्ञानदा ज्ञानभूमेर्हि प्रथमा भूमिका मता । संन्यासदा द्वितीया स्यात् तृतीया योगदा भवेत् ।। लीलोन्मुक्तिश्चतुर्थी वै पञ्चमी सत्पदा स्मृता । षष्ठ्यानन्दप्रदा ज्ञेया सप्तमी तु परात्परा ।।
← (सं.गी.९/४५-४७) इत्येवं याः सप्त ज्ञानभूमिका दर्शिताः तन्मध्यात् प्रथमा ज्ञानदा → लेखना पूजना दानं... ← ( द्वा.द्वा. २१/१६), स्वाध्यायादिष्टदर्शनम् ← (द्वा.द्वा.२२/४) इति च वक्ष्यमाणरीत्या मित्रा-तारयोः योगदृष्ट्योः सम्भवति, अवशिष्टाश्च बलादिष्विति समाकलितस्व-परसमयरहस्यैरागमाऽविरोधेनाऽनुयोज्यम्, न तु मूढतया भाव्यम् ।
एवमेव श्रीधीशगीतायां सप्तानां ज्ञानभूमीनां प्रथमा ज्ञानदा भवेत् । संन्यासदा द्वितीया स्यात् तृतीया योगदा भवेत् ।। लीलोन्मुक्तिश्चतुर्थी स्यात् पञ्चमी सत्पदा स्मृता। षष्ठ्यानन्दप्रदा ज्ञेया सप्तमी च परात्परा ।। ← ( श्रीधी. ३ | ३६-३७ ) इत्येवं याः सप्त ज्ञानभूमयो दर्शिताः तन्मध्यात् प्रथमा आद्ययोः द्वयोः, अवशिष्टाश्च यथाक्रमं बलादिषु इच्छा - प्रवृत्त्यादिभेदेन यथातन्त्रं समवतार्याः स्वपरसमयसमन्वयनिष्णातैः ।
इदमप्यत्रावधातव्यम्- यदुत ' खेदादित्यागाऽ द्वेषादिगुण - यमादियोगाङ्गानि यस्यां दृष्टौ समवतारितानि तानि सर्वाण्येव तस्यामेव वर्तन्त एव तत्पूर्वं पश्चाद्वा सर्वथैव न सन्त्येवेति एकान्तो नास्ति । तानि तत्तद्दृष्टौ शक्त्या सम्भावनया वा वर्तन्ते बाहुल्येन । तत्पूर्वमपि इच्छादिभेदभिन्नतया तत्सत्त्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org