________________ 1400 * बौद्धाभिमताऽष्टाङ्गिकमार्गसमवतारप्रतिज्ञा * द्वात्रिंशिका-२०/२७ खेदादीनां ध्यानाऽभिधानस्थले प्रोक्तानां योगप्रत्यनीकाऽऽशयलक्षणानां परिहारतः (=खेदादिपरिहारतः) अद्वेषादयो येऽष्टौ गुणाः / तदुक्तं- “अद्वेषो जिज्ञासा शुश्रूषा श्रवण-बोध-मीमांसाः / परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे" (षोडशक-१६/१४) इति। अट्ठङ्गिको मग्गो सेय्यथिदं- (1) सम्मादिट्ठि, (2) सम्मासङ्कप्पो, (3) सम्मावाचा, (4) सम्माकम्मन्तो, (5) सम्माआजीवो, (6) सम्मावायामो, (7) सम्मासति, (8) सम्मासमाधि - (म.नि.भाग-१/५/४/ 463, दी.नि. 1 / 6 / 375) इति / तत्र प्रथम-द्वितीययोः प्रज्ञास्कन्धे, तृतीय-चतुर्थ-पञ्चमानां शीलस्कन्धे, अवशिष्टानाञ्च समाधिस्कन्धे सङ्ग्रहः बौद्धमतानुसारेण मज्झिमनिकाये क्षुद्रवेदल्लसूत्रे दर्शितः (म.नि. 15 / 4 / 463) इत्यवधेयम् / यथा चैतत्सम्भवस्तथा यथास्थानं दर्शयिष्यामः / __ खेदादीनां दोषाणां ध्यानाऽभिधानस्थले योगभेदद्वात्रिंशिकायां (ध्याना.स्थ.१८/१२-२०) प्रोक्तानां = षोडशकानुसारेण निरूपितानां परिहारतः अष्टौ गुणा यथाक्रममष्टसु दृष्टिषु जायन्ते / अत्र षोडशक(षो.१६/१४)संवादमाह- 'अद्वेष' इति / अस्य प्रकृतग्रन्थकारकृता योगदीपिकाव्याख्यालेश एवम् - (1) अद्वेषः = पक्षपातकृताऽप्रीतिपरिहारः तत्त्वविषयः / (2) जिज्ञासा = तत्पूर्विका तत्त्वज्ञानेच्छा / (3) शुश्रूषा = बोधश्रोतःसिराकल्पा तत्त्वजिज्ञासापूर्विका / (4) श्रवणं = तत्त्वशुश्रूषानिबन्धनतत्त्ववचनाऽऽकर्णनम् / (5) बोधः = श्रवणनिबन्धनतत्त्वपरिच्छेदः / (6) मीमांसा = बोधाऽनन्तरभावितत्त्वविचाररूपा / ततः श्रवणादिपदानां द्वन्द्वः / (7) परिशुद्धा = सर्वतो भावविशुद्धा प्रतिपत्तिः = मीमांसोत्तरभाविनी 'इदमित्थमेवेति निश्चयाऽऽकारा परिच्छित्तिः तत्त्वविषयैव / (8) प्रवृत्तिः = परिशुद्धप्रतिपत्त्यनन्तरभाविनी तत्त्वविषया क्रिया / प्रवृत्तिशब्दो द्विः आवर्त्यते / तेनायमर्थः - तत्त्वे प्रवृत्तिः अष्टाङ्गिकी = अष्टभिरद्वेषादिभिरङ्गनिर्वृत्ता 6 (षोड.१६/१४ यो.दी.वृ.) इति / ___ यत्तु हरिभद्रसूरिभिः एव ब्रह्मसिद्धान्तसमुच्चये - अद्वेषश्चैव जिज्ञासा शुश्रूषा श्रवणं तथा / बोध ईहा सुविज्ञप्तिः प्रतिपत्तिस्तथैव च / / (ब्र.सि.३५) इत्येवमद्वेषादिनिर्देशोऽकारि तत्तु नयान्तराभिप्रायेण बोद्धव्यम्, यतस्तत्रेहापर्यन्तमपुनर्बन्धकस्य, सुविज्ञप्तौ सम्यग्दृष्टेः प्रतिपत्तौ च चारित्रिणोऽधिकारित्वमुक्तम् / तदुक्तं तत्रैवाऽग्रे - अत्राप्यधिकारिणो युक्ता अपुनर्बन्धकादयः / त्रय एव समासेन शेषास्त्वनधिकारिणः / / __ अपुनर्बन्धकस्याथ विविधोपासना मता / सम्यग्दृष्टेः सुविज्ञप्तिः प्रतिपत्तिश्चरित्रिणः / / - (ब्र.सि.३७-३८) इति / एवमेव प्राक् (द्वा.द्वा.१९/२३ पृ.१३०९) प्रवृत्तचक्रयोगिनिरूपणाऽवसरे ये शुश्रूषादयः प्रज्ञागुणा उक्ताः तेऽपि नयान्तराऽभिप्रायेण योज्या अत्र नानानयाऽभिप्रायान्वेषणकुशलैः / इदमप्यत्राऽवधातव्यम्- संन्यासगीतायां - છે.” આ યમાદિ યોગોથી યુક્ત એવા જીવોને ખેદાદિ દોષના ત્યાગથી અષાદિ ગુણો પ્રગટે છે. ધ્યાનના નિરૂપણના અવસરે ખેદાદિ આઠ દોષોનું નિરૂપણ પૂર્વે (બત્રીસી -18/12 થી 20 શ્લોક) કહેલ છે. તે આઠ દોષો યોગના વિરોધી આશયસ્વરૂપ છે. તે આઠ દોષના ત્યાગથી અદ્વેષ વગેરે ગુણો પ્રગટે છે. આ मा6 गु षोडश अंथमा भु४५ मतावे॥छ ? “अद्वेष, शिसा, शुश्रूषा, श्रवण, पोष, भीमांसा, પરિશુદ્ધ પ્રતિપત્તિ અને તત્ત્વવિષયક પ્રવૃત્તિ - આમ તત્ત્વને વિશે આઠ પ્રકારે પ્રવૃત્તિ પ્રગટેલી હોય છે.” Jain Education International For Private & Personal Use Only www.jainelibrary.org