________________
• यमादीनां योगाङ्गत्वकथनम् .
१३९९ यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानां क्रमेणैषा सतां मता ॥२७।।
यमादीति । यमादयो योगाङ्गत्वाद्योगाः । यथोक्तं- “यम-नियमाऽऽसन-प्राणायाम-प्रत्याहारधारणा-ध्यान-समाधयोऽष्टावङ्गानि योगस्येति” (यो.सू.२-२९) तैर्युक्तानाम् (=यमादियोगयुक्तानां)
इयञ्च योगदृष्टिः सकलयोगिदर्शनसाधारणेति यथाविधानां यथा भवति तथाविधानां तथाऽभिधातुं योगदृष्टिसमुच्चय(यो.दृ.स.१६)कारिकामाह- ‘यमादी'ति । योगदृष्टिसमुच्चयवृत्त्यनुसारेण व्याख्यानयतियमादयः योगाङ्गत्वात् कारणे कार्यत्वोपचारेण योगा उच्यन्ते । अत्र पातञ्जलयोगसूत्रसंवादमाह- ‘यमे'ति । अस्य राजमार्तण्डव्याख्या एवम् → इह कानिचित् समाधेः साक्षादुपकारकत्वेनाऽन्तरङ्गाणि, यथा धारणादीनि । कानिचित् प्रतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण समाधिमुपकुर्वन्ति, यथा यम-नियमादीनि । तत्राऽऽसनादीनामुत्तरोत्तरमुपकारकत्वम् । तद्यथा सति आसनजये प्राणायामस्थैर्यम् । एवमुत्तरत्राऽपि योज्यम् + (यो.सू.२/२९ रा.मा.) इति । यथा चैतत्तथा भावयिष्यतेऽग्रे (द्वा.२१/३ पृ.१४२५)। → अभ्यास-वैराग्य-श्रद्धा-वीर्यादयोऽपि यथायोगमेतेष्वेव स्वरूपतो नान्तरीयकतयाऽन्तर्भावयितव्याः + (यो. सू.२/२९ त.वै.) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । वात्स्यायनेन तु न्यायसूत्रभाष्ये → योगशास्त्राच्चाऽध्यात्मविधिः प्रतिपत्तव्यः । स पुनः (१) तपः (२) प्राणायामः (३) प्रत्याहारः (४) ध्यानं (५) धारणा - (न्या.सू.४/२/४६ भा.) इत्येवमुक्तमित्यत्राऽनुसन्धेयम् । यम-नियमादीनामात्मदर्शनहेतुत्वमस्माकमप्यभिमतमेव । तदुक्तं अध्यात्मगीतायां श्रीबुद्धिसागरसूरिभिः →
अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमकिञ्चनम् । अभक्ष्यवस्तुसंत्याग, आत्मदर्शनहेतवः ।। ईश्वरप्रणिधानाद्वा, सद्गुरोर्बोधतस्तथा । अनेकान्तनयज्ञानाद्, दर्शनं स्वात्मनो ध्रुवम् ।। वीतरागप्रभोः श्रद्धा, भक्त्या तद्गुणसेवनम् । क्षमा शौचं च स्वाध्याय आत्मदर्शनहेतवः ।।
6 (अ.गी.२८-३०) इति। अत्र च → यम-नियमाऽऽसन-प्राणायामाः प्रत्याहृतिश्च धारणया। सार्धं ध्यान-समाधी इत्यष्टाङ्गानि योगस्य ।। - (अ.तत्त्वा. ३/५) इति अध्यात्मतत्त्वालोककारिकाऽप्यनुसन्धेया । ___ एवमेव बौद्धाभिमतः सम्यग्दृष्टि-सङ्कल्प-वाक्कर्मान्ताऽऽजीव-व्यायाम-स्मृति-समाधिलक्षणोऽष्टाङ्गिको मार्गोऽपि यथाक्रममासु यथागमं योजनीयः । तदुक्तं मज्झिमनिकाये दीघनिकाये च → अयमेव अरियो મિત્રાદિ યોગદષ્ટિઓમાં રહેલો હોઈ શકે છે. પ્રાથમિક કક્ષાનું સંવેગમાધુર્ય મિત્રાદષ્ટિમાં આવે છે. તે આગલી દૃષ્ટિઓમાં વિશેષ સ્વરૂપે પરિણમે છે. (૨૦/૨૬)
યોગદૃષ્ટિઓમાં રોગપ્રવૃત્તિ, ગુણલાભ, દોષત્યાગનો વિચાર હ ગાથાર્થ :- ખેદાદિ દોષોના પરિહારપૂર્વક યમાદિ યોગથી યુક્ત તથા અષાદિ ગુણોમાં રહેલા એવા જીવોને આ યોગદષ્ટિઓ ક્રમશઃ હોય છે -એમ મહાત્માઓને સંમત છે. (૨૦૦૭)
ટીકાર્ય - યમ, નિયમ વગેરે યોગનું અંગ હોવાથી યોગ કહેવાય છે. જેમ કે યોગસૂત્ર ગ્રંથમાં જણાવેલ छ । 'यम, नियम, आसन, प्रायाम, प्रत्यार, ५।२९॥, ध्यान भने समापि- भामाठ योगनगो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org