Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 9
________________ ।। ५ ।। ***** गच्छति गुहामध्ये निम्नगोन्निम्नगे द्वे नद्यौ समागते, चर्मरत्नेन च ते द्वे नद्यौ समुत्तीर्णे, अग्रेतनं गुहाद्वारमा - साद्य सैन्यं स्थापितं, तत्र म्लेच्छराजानो बहवो मिलिताः, चक्रिणा सार्द्धं च युद्धं कर्तुं लग्नाः, चक्रिणा ते सर्वेऽपि जिताः सर्वेऽपि सेवकाच जाताः, तत्रत्यं खंडत्रयं च जित्वा पश्चाद्वलितश्चक्री, मार्गे समागच्छता तेन गंगातीरमासाद्य सैन्यं स्थापितं तत्तीरे च नवनिधानानि प्रकटितानि, तन्निधानस्वरूपं च किंचिद्गाथया लिख्यते, तत्र प्रथमं तन्ना - मानिस १ पंडुए २ | पिंगलए ३ सव्वरयणं ४ महपउमे ५ || काले अ ६ महाकाले ७ | माणवग ८ महानिहीसंखे ६ | १ | चक्कद्धपइठाणा अठ्ठुस्सेहा य नव विख्खंभे || बारसदीहा मंजूससंठिआ जाह्नवीमुहे || २ || वेरुलियमणिकवाडा कणगमया विविहरयणपडिपुण्णा || पलिउचउमठिईणं । देवाणं ते अ आवसा || ३ || इति निधानगाथाः. तत्राष्टौ दिवसान् यावन्महोत्सवं कृत्वा तत्र गंगातीरे से तस्थौ, तदधिष्टायिकया गंगया नाम्न्या देव्या सह वर्षसहस्र यावद्भोगान् बुभुजे . ततोऽनंतरं चक्रं चलितं. वैताढ्यपर्वते तेन नमिविनमिनामानौ विद्याधरौ जितौ, तेन नमिविद्याधरेण स्वकीया पुत्र चक्रिणे दत्ता, सा च स्त्रीरत्नं जाता. एवं षष्टिवर्षसहस्राणि यावदिग्विजयं कृत्वायोध्यायां पुन-. राजगाम । ततोनिजपुरुषाः षष्टिं वर्षसहस्राणि विरहाद्दर्शनोत्सुकान् निजान् राज्ञोऽदर्शयन् । ततः कृशां म्लानां प्रणष्ट लावण्यां पाण्डुक्षामकपोलां बाहुबलिनः सोदरां सुन्दरीं नाम ग्राहं स्वपुरूषैर्दृश्यमानां स ददर्श । तां तथाविधां प्रेक्ष्य भरतः सकोपं स्वायुक्तानवोचत् - " किं मद्गृहे भक्ष्यान्नपानफलादीनि न सन्ति १ येनेषा सुन्दरीदृशीं दशां गता १, Jain Education national For Personal & Private Use Only ॥ ५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 150