Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 8
________________ र "श्री चक्कवट्टिस्स "प्रथमः श्रीभरत| चक्रवर्ती| चरितम्" कहा" ॥४॥ ९XXXXXXXXXXXXXXXXXXKAL न जानंति इति वैराग्यरसैकमग्नया क्षपकश्रेणिमासाद्याष्टकर्मक्षयं कृत्वांतकृत्केवलित्वेन मोक्षं गता निर्मितः, इंद्राद्याः सर्वेऽपि सुराः समवसरणादम्येत्य मरुदेवाशरीरं क्षीरोदधिप्रवाहे वाहयामासुः, सशोकं भरतमग्रेसरं कृत्वा समवसरणामागताः, प्रभु त्रिःप्रदक्षिणीकृत्य भरतोऽपि यथास्थानं निविष्टः, प्रभोर्देशना श्रुता गतशोकश्च जातः, देशनाते प्रभु वंदित्वा श्राद्धधर्म प्रतिपद्य भरतोऽयोध्यामागत्य चक्ररत्नोत्सवं करोतिस्म. अष्टसु दिवसेषु गतेषु चक्रं पूर्वाभिमुखं चलितं, भरतोऽपि देशसाधनार्थ तदनु ससैन्यो निर्गतः, योजनावधिप्रयाणं कुर्वन् कतिभिर्दिनः पूर्वोदधितटं सैन्यं स्थापयायमास, अष्टमं तपश्चकार, मागधनामानं सुरं मनसि कृत्वा तस्थौ. दिवसत्रयानंतरं रथमारुह्य समुद्र जलं रथनाभिपर्यतमवगाह्य निजनामांकितं वाणं धनुषा संयोज्य मुमोच, द्वादशयोजनानि यावद्गत्वा तद्वाणं मागधसभायां सिंहासने निपत्य भूमौ पपात. तत्पातदर्शनादेव जातकोपो मागधस्तं बाणं करे धृत्वा अक्षराणि वाचयामास. भरतचक्रिणमागतं ज्ञात्वा गतकोरः प्राभुतं गृहीस्वा सन्मुस्वं सपरिकरचलितः, आगत्य चक्रिणश्चरणयोः पतत् स्वामिन् क्षमस्व मदीयापराधं ? तब सेवकोऽहं इयंति दिनानि यावदनाथोऽधुना त्वदर्शनेन सनाथो जात इति नमस्कृत्य चक्रिणमावर्जयित्वाऽनुज्ञातः सत् स्वस्थान जगाम. चक्रिणपि पश्चादेत्याष्टमतपःपारणं कृतं. तदनु चक्रमाकाशे चलितं, सैन्यमपि तदनुचलितं. दक्षिणोदधितटं प्राप्तं च पूर्ववत्तद्दिक्स्वामी वरदामोऽपि जितः, तदनु पश्चिमदिशि प्रभासं विजित्योत्तराभिमुखं चक्रं चलितं. तस्यां दिशि वैताढ्यनगमासाद्याऽष्टमतपो विधाय तमिस्रागुहाधिष्टातारं देवं मनसि धृत्वा तस्थौ, अष्टमतपोंते देवेन प्रत्यक्षीभूय तमिस्राविवरमुद्धाटितं ससैन्यश्चकी तमिस्रामध्ये चचाल. मणिरत्नप्रकाशेन सैन्यं SEXXXXXXX ॥४॥ Jain Educatatemalonal For Persons & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 150