Book Title: Chakkavattisa Kaha
Author(s): Jayanandvijay, 
Publisher: Ek Shramanopasika

View full book text
Previous | Next

Page 6
________________ चकवट्टिस्स कहा" "प्रथमः श्रीभरतचक्रवर्तीचरितम्" KXXXXXXXXXXXXXXXXXXXXXXX म्नाऽस्यामऽवसर्पिण्यां चरमतीर्थकरो महावीरनामा भविष्यति। तदनुसारेण क्षत्रियकुंडनगरे श्रीसिद्धार्थ राज्ञा गृहे त्रिशला राज्याः पुत्रत्वेन श्रीमहावीरो जातः । श्रीमहावीरो दीक्षा गृहीत्वा सार्द्धद्वादशवर्षपर्यंतं देवमनुजतियंचादि कृतानि घोरोपसर्गानि कर्मक्षयार्थ शांतभावेन सहमानेन व्यहरत । ___ माधवशुक्लदशम्यादिवसे ऋजुवालिकानद्यास्तीरे केवलज्ञानमुत्पन्नम् । तत्पश्चात् तीर्थस्थापनांकृत्वा विहरतिस्म। एकदा गौतम गणधरेण महावीरस्वामिनं प्रपच्छ "हे भगवंत् ! अस्यामवसपिण्याम् द्वादश चक्री बभुव । तेषाम् चरित्राणि श्रवणार्थ मम महत्युत्कंठाऽस्ति, अतः कृपां कृत्वा तेषाम् चरित्राणि श्रावय । तदा भगवता निम्नानुसारेण द्वादशचक्रिणाम् चरित्राणि अश्रावयत । "प्रथमः श्रीभरतचक्रवर्तीचरितम्" अयोध्यायां नगर्या ऋषभात्मजो भरतनामा चक्री बभूव. श्रीऋषभस्वामिना संयमग्रहणवेलायां शतसंख्येभ्यो निजपुत्रेभ्यो निजनिजनामांकितादेशा दत्ताः, बाहुबलये बहलीदेशे तक्षशिलाराज्यं दत्तं. भरताय चाऽयोध्याराज्यं दत्तं, स भरत एकदा सभायां स्थितोऽस्ति, तस्मिन्नवसरे यमकशमकनामानौ द्वौ नरौ वर्धापनिकां दातुंसभामुखप्रतोल्यामागतो. प्रतिहारेणागत्य भरताय निवेदितं. भूसंज्ञयाऽनुज्ञापितो दौवारिकस्तौ यमकशमकावाकारयामास. तौ चागत्य करकमलौ मुकुलीकृत्य भरतमाशीर्वचनपुरस्सरं तुष्टुवतुः, तयोर्मध्यादेको यमकनामाविज्ञपयति देव ! पुरिमतालपुरे XXXXXXXXXXXXXXXXXX ॥२॥ Jain Educa t ional For Personal & Private Use Only Mbikhelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 150