Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्यं सबृत्तिकम् ॥ ॥२॥ TRAKASSAR (त्रिविधा भाषा तद्यथा ग्रहणं निसरणं पराघात इति ) चूर्णिदर्शनात्प्रथमापि नानुपपनैवेति ध्येयम् ॥२॥ अथ कीदृशानि भाषाद्रव्याणि गृह्वातीत्याहगेण्हाठियाइ जीवो,णेव य अठियाइ भासदब्वाइं॥दव्वाइचउविसेसो, णायव्वो पुण जहाजोग।।३।। जीवो भाषाद्रव्याणि स्थितानि गृह्णाति, नैव चाऽस्थितानि गमनपरिणामवन्ति । अथ यानि स्थितानि गृह्णाति तानि द्रव्यतः किमेकप्रदेशकानि यावदनन्तप्रदेशकानि वा १, क्षेत्रतश्चैकप्रदेशावगाढानि यावदसङ्खथेय- प्रदेशावगाढानिवा?, कालतश्चैकसमयस्थितिकानि यावदसङ्खथेयसमयस्थितिकानि वा ?, भावतश्च वर्णवन्ति गन्ध- वन्ति रसवन्ति स्पर्शवन्ति वेति ? जिज्ञासायामाह, द्रव्यादिचतुर्विशेषः पुनर्यथायोग सूत्रोक्तनीत्या यथासम्भवं ज्ञातव्यः। तथाहि ॥ द्रव्यतस्तावदनन्तप्रदेशकान्येव गृह्णाति नैकपरमाण्वाद्यात्मकानि, स्वभावत एव तेषां ग्रहणायोग्यत्वात् ॥ क्षेत्रतस्त्वसङ्घयेयप्रदेशावगाढान्येव, एकप्रदेशाधवगाढानां ग्रहणायोग्यत्वात् ।। कालतस्त्वेकसमयस्थितिकान्यपि यावदसङ्घयसमयस्थितिकान्यपि, पुद्गलानामसङ्ख्येयमपि कालं यावदवस्थानसम्भवात् ॥ “निरेए जहनेणं एकं समयं उकोसेणं असंखेज कालम्" ।। (निरेजो जघन्येनैकं समयं, उत्कर्षेणासंख्येयं कालं) इति व्याख्याप्रज्ञप्तिवचनात् ।। एकसमयस्थितिकत्वं च ग्रहणानन्तरमेव निसर्ग, ग्रहणसमय एवावस्थानात्प्रतिपत्तव्यम् ।। एकप्रयत्नगृहीतानामप्यादिभाषापरिणामस्थितिवैषम्यादेकसमयस्थितिकान्यपीत्यन्ये॥ भावतस्तु वर्णवन्त्यषि यावत् स्पर्शवन्त्यपि । वर्णगन्धरससङ्घथामाश्रित्य तु समुदायविवक्षायां नियमात् पञ्चद्विपश्चवर्णगन्धरसवन्त्येव, ग्रहणद्रव्या SAGAR ग्राह्यभाषाया द्रव्यादिमेदचतुष्टय प्रदर्शनम् ।। स्थितन्यग्रहणस्वरूपश्च ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 126