________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीभाषारहस्यं सबृत्तिकम् ॥
॥२॥
TRAKASSAR
(त्रिविधा भाषा तद्यथा ग्रहणं निसरणं पराघात इति ) चूर्णिदर्शनात्प्रथमापि नानुपपनैवेति ध्येयम् ॥२॥
अथ कीदृशानि भाषाद्रव्याणि गृह्वातीत्याहगेण्हाठियाइ जीवो,णेव य अठियाइ भासदब्वाइं॥दव्वाइचउविसेसो, णायव्वो पुण जहाजोग।।३।।
जीवो भाषाद्रव्याणि स्थितानि गृह्णाति, नैव चाऽस्थितानि गमनपरिणामवन्ति । अथ यानि स्थितानि गृह्णाति तानि द्रव्यतः किमेकप्रदेशकानि यावदनन्तप्रदेशकानि वा १, क्षेत्रतश्चैकप्रदेशावगाढानि यावदसङ्खथेय- प्रदेशावगाढानिवा?, कालतश्चैकसमयस्थितिकानि यावदसङ्खथेयसमयस्थितिकानि वा ?, भावतश्च वर्णवन्ति गन्ध- वन्ति रसवन्ति स्पर्शवन्ति वेति ? जिज्ञासायामाह, द्रव्यादिचतुर्विशेषः पुनर्यथायोग सूत्रोक्तनीत्या यथासम्भवं ज्ञातव्यः। तथाहि ॥ द्रव्यतस्तावदनन्तप्रदेशकान्येव गृह्णाति नैकपरमाण्वाद्यात्मकानि, स्वभावत एव तेषां ग्रहणायोग्यत्वात् ॥ क्षेत्रतस्त्वसङ्घयेयप्रदेशावगाढान्येव, एकप्रदेशाधवगाढानां ग्रहणायोग्यत्वात् ।। कालतस्त्वेकसमयस्थितिकान्यपि यावदसङ्घयसमयस्थितिकान्यपि, पुद्गलानामसङ्ख्येयमपि कालं यावदवस्थानसम्भवात् ॥ “निरेए जहनेणं एकं समयं उकोसेणं असंखेज कालम्" ।। (निरेजो जघन्येनैकं समयं, उत्कर्षेणासंख्येयं कालं) इति व्याख्याप्रज्ञप्तिवचनात् ।। एकसमयस्थितिकत्वं च ग्रहणानन्तरमेव निसर्ग, ग्रहणसमय एवावस्थानात्प्रतिपत्तव्यम् ।। एकप्रयत्नगृहीतानामप्यादिभाषापरिणामस्थितिवैषम्यादेकसमयस्थितिकान्यपीत्यन्ये॥ भावतस्तु वर्णवन्त्यषि यावत् स्पर्शवन्त्यपि । वर्णगन्धरससङ्घथामाश्रित्य तु समुदायविवक्षायां नियमात् पञ्चद्विपश्चवर्णगन्धरसवन्त्येव, ग्रहणद्रव्या
SAGAR
ग्राह्यभाषाया द्रव्यादिमेदचतुष्टय प्रदर्शनम् ।। स्थितन्यग्रहणस्वरूपश्च ॥
For Private and Personal Use Only