________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याश्रित्य तु कानिचिदेकद्वयादितद्वन्त्यपीत्यूहनीयम् । कालादीन्य प्येकगुणकालादीनि यावदनन्तगुण कालादीन्यपीति द्रष्टव्यम् । स्पर्शसङ्ख्यामाश्रित्य च ग्रहणद्रव्याणि प्रतीत्य कानिचिद् द्विस्पर्शवन्ति न त्वेकस्पर्शवन्ति । एकस्यापि परमाणोरवश्यं स्पर्शद्वय सद्भावात् । द्वौ च स्पर्शो मृदुशीतौ मृदूष्णौ वा । कानिचित्रिस्पर्शान्यपि, त्रिस्पर्शत्वं, कानि चिन्मृदुशीतस्पर्शानि कानिचिन्मृदुखिग्धस्पर्शानीत्यादिदिशा मृदुस्पर्शावयवानां स्पर्शान्तरयोगे समुदायमधिकृत्य भावनीयम् । कानिचिच्चतुःस्पर्शान्यपि । समुदायमधिकृत्य तु चतुःस्पर्शान्येव तत्र चतुःस्पर्शेषु सूक्ष्मस्कन्धेषु द्वौ मृदुलघुरूपाववस्थितौ स्पर्शो अन्यौ तु द्वौ स्निग्धोष्णौ खिग्धशीतौ रूक्षोष्णौ रूक्षशीतौ चेति । अत्र चावस्थितयोः स्पर्शयोरव्यभिचरितत्वेनागणनाद्वैकल्पिकस्पर्शमाश्रित्य चतुःस्पर्शवन्तीति निर्देश इति सम्प्रदायः । न चायं पर्यनुयोज्यो विचित्रत्वात्सूत्रगतेरिति भावनीयम् । शीतस्पर्शादीन्यपि चैकगुणशीतस्पर्शादीनि यावदनन्तगुण शीतस्पर्शादीन्यपीति द्रष्टव्यम् । आलापकश्चात्र विषये प्रज्ञापनायामनुसन्धेयः || ३ || अथ स्पृष्टास्पृष्टादिजिज्ञासायामाह - पुट्ठोगाढ अनंतर - अणुबायरद्रुमहतिरियगाई || आइविसयाणुपुब्बी - कलिआई छेद्दिसिं चेव ॥ ४ ॥
उक्तलक्षणानि भाषाद्रव्याणि स्पृष्टान्येव आत्मप्रदेशैः सह सङ्गतान्येव गृह्णाति नास्पृष्टानि ॥ १ ॥ तान्यप्यवगाढान्येवात्मप्रदेशैः सहैकक्षेत्रावस्थितान्येव न त्वात्मप्रदेशैः स्पृष्टान्यप्यात्मप्रदेशावगाहक्षेत्राद्बहिरवस्थितानि ।। २ ।। तान्यप्यनन्तरावगाढान्येव न परम्परावगाढानि येष्वात्मप्रदेशेषु यानि भाषाद्रव्याण्यवगाढानि तैरात्मप्रदेशैस्तान्येव गृह्णाति, न त्वेकद्वित्रात्मप्रदेशव्यवहितानि || ३ || तान्यपि भाषायोग्यस्कन्धानां मिथ एव प्रदे
For Private and Personal Use Only
भाषाया द्रव्यादि वि
शेष प्ररूपणं ग्राह्यपुद्गलेषु स्पृष्टादिनवद्वारवर्ण
नश्च ॥