Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 289
________________ । २३६ ] [ तत्त्वबोधिनीविवृतिविभूषितम् शक्तिमदुपहितत्वाच, अस्यैषा समष्टिः स्थूलप्रपश्चापेक्षया सूक्ष्मस्वात् सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात् स्वप्नः, अत एव स्थूलप्रपञ्चलयस्थानमित्युच्यते । एतद्वयष्टयु. पहितं चैतन्यं तैजस उच्यते, तेजोमयान्तःकरणोपहितत्वात् , अस्यापीयं व्यष्टिः स्थूलशरीरापेक्षया सूक्ष्मत्वादिहेतोरेव सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात् स्वप्नः स्थूलशरीरलयस्थानमिति । एतौ सूत्रात्म-तैजसाविदानी मनोवृत्तिभिः सूक्ष्मविषयान - भवतः "प्रविविक्तभुक् तैजसः" इति श्रुतेः। अत्रापि व्यष्टिसमस्तीत्याह-यत इति । अस्य हिरण्यगर्भस्य । एषा एकबुद्धिविषयत्वेन सूक्ष्मशरीरात्मकैकस्वरूपा,इतोऽपि सूक्ष्ममानन्दमयकोशात्मकजगत्कारणाक्षानस्वरूपं शरीरं समस्तीत्यत आह-स्थूलप्रपञ्चापेक्षयेति । सूक्ष्मशरीररूपस्य निरुक्तकोशत्रयस्य सहेतुकं स्वप्नस्वरूपत्वमुपदर्शयतिजामद्वासनामयत्वात् स्वप्न इति । अत एव स्वप्नस्वरूपत्वादेव । समष्टिव्यपदेश्यकोशत्रयरूपसूक्ष्मशरीरोपहितचैतन्यस्य सूत्रात्मकहिरण्यगर्भरूपतामुपदर्थ्य व्यष्टिव्यपदेश्यकोशत्रयरूपसूक्ष्मशरीरोपहितचंतन्यस्य तेजसरूपत्वमावेदयति-एतद्वयष्टयुपहितमिति । तस्य तैजसपदव्यपदेश्यत्वे हेतुमाह-तेजोमयेति । अस्यापि तैजसस्यापि, अपिना यथा हिरण्यगर्भस्य समष्टिः सूक्ष्मशरीरं सूप्तः स्थूलप्रपञ्चलयस्थानं च तथेत्यर्थः स्यावेदनम् । सूत्रात्मनो हिरण्यगर्भस्य तैजसस्य च मनोवृत्तिद्वारा सूक्ष्मविषयानुभावकत्वं दर्शयति-एताविति । मनोवृत्तिद्वारा तैजसस्य सूक्ष्मविषयानुभावकत्वे श्रुतिं प्रमाणयति-प्रविविक्तेति । यथा च विशुद्धसत्त्वप्रधानाऽज्ञानरूपसमष्टि-मलिनसत्त्वप्रधानाऽज्ञानरूपव्यष्टयोस्तदु. पहितचैतन्ययोश्चेश्वर-प्राऽशयोरमेदो वनवृक्षामेद-जलाशयजलामेदवनवृक्षावच्छिन्नाकाशामेद-जलाशयजलगतप्रतिविम्बाकाशाभेददृष्टान्तेनोपपादितस्तथा प्रकृतव्यष्टि-समष्टिरूपयोः । सूक्ष्मशरीरयोस्तदु

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452