Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३६७ गोचरत्वात् परम्परया वस्तुप्रतिबन्धात् तथाविधतत्प्राप्तिहेतुतया तु तस्य प्रामाण्यमिष्टम् , उक्तं च
“लिङ्ग-लिङ्गिधियोरेवं, पारम्पर्येण वस्तुनि।। प्रतिबन्धात् तदाभासशून्ययोरप्यवन्धनम्" ॥ [ ] इति ।
परैस्तु परमार्थत एव वस्तुविषयत्वमिष्टं प्रीत्यादिप्रतिपत्तीनाम् , अन्यथा 'सुखाद्यात्मनां शब्दादीनामनुभवात् सुखाद्यनुभवख्यातिः' नन्वेवं विकल्परूपस्याऽनुमानस्य प्रामाण्यं रद् बौद्धस्याभिमतं तत् कथं विकल्पस्य वस्त्वविषयकत्वे सङ्गतमित्यत आह- परम्परयेतियद्यपि विकलो न वस्तुगोचरः, तथापि परम्परया वस्तुप्रतिबन्धस्तस्य समस्ति, यतो वस्तुविषयकं निर्विकल्पकम्। ततोऽनुरूपविकल्पोत्पत्तिः, ततः प्रवृत्तस्य पुंसो वस्तुप्राप्तिरिति परम्परया वस्तु प्रतिबन्धाद् वस्तुप्राप्तिहेतुत्वाच्च विकल्परूपस्थाप्यनुमानस्य प्रामाण्यम्। तथाविधतत्प्राप्तीति- परम्परया प्रतिबद्धवस्तुप्राप्तीत्यर्थः। तस्य विकल्पस्य । इष्ट बौद्धैरभ्युपगतम्।
इदानी साडयमतखण्डनं बौद्धमतमवलम्ब्येति बोध्यम्, अत एवोक्तार्थे तत्संवादमुपदर्शयति- उक्तं चेति। लिङ्ग-लिङ्गिधियोः हेतुज्ञानसाध्यज्ञानयोः। एवं सविकल्पप्रत्यक्षवत् । तदाभास-शून्ययोः वस्तुप्रतिभास शून्ययोः, एतच्च 'लिङ्ग-लिङ्गिधियोः' इत्यस्य विशेषणम् । अपिना प्रत्यक्षविकल्पस्यानेडनम्। पारम्पर्येण स्वकारणीभूतनिर्विकल्प प्रत्यक्षद्वारेण । वस्तुनि प्रतिबन्धात्, सम्बन्धात् , अबन्धनम् साक्षाद्वस्तुसम्बन्धाभावः। परैस्तु सविकल्पकस्य साक्षादेव वस्तुप्रतिबन्धात् प्रामाण्यमित्यभ्युपगन्तृभिः साङ्गः पुनः, अस्य 'इष्टम्' इत्यनेनान्वयः। अन्यथा साङ्ख्याचार्यः प्रीत्यादिप्रतिपत्तीनां परमार्थतो वस्तुविषयत्वं नेष्टमित्युपगमे, अस्या 'असङ्गतं स्याद्' इत्यत्रान्वयः। यदा च साङ्ख्यमते सुखादिसंवेदनस्य सविकल्पकस्य वस्तुविषयकत्वात् परमार्थत एव प्रामाण्यं तदा तस्य शब्दादीनां त्रयात्मकत्वे यदनिष्ट

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452