Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३६५ वहिर्मुखाकारेण चन्दनादिभानेऽपि चन्दनीयं सुखमिदं जातम् । इत्यन्तर्मुखाकारेण सुखस्यापि तत्क्षणमेवानुभवात्, अतिरिक्ततज्ज्ञान-तत्सामग्र्यादिकल्पने गौरवात्। एतेन 'मानसत्वावच्छिन्नं प्रति मानसाऽन्यज्ञानसामय्याः प्रतिबन्धकतायां वैजात्येन सुख-दुःखयोरुत्तेजकत्वमेवास्तु' इत्यपि निरस्तम् , तदुत्तेजकत्वकल्पनायामपि एवं यादृशकण्टकादिभाने दुःखसम्प्रत्ययस्तादृशकण्टकादिभाने भोगत्वमित्यर्थः, ननु चन्दनभाने सुख सम्प्रत्ययो यदि भवेत् तदा तत्र भोगत्वकल्पनमुचितं तदेव तु नानुभवविषय इत्यत आह- इद चन्दनमितीति । तत्क्षणमेव चन्दनभानक्षणमेव । चन्दनज्ञानमेव सुखरूपं सुखस्य स्वसंवेदनरूपमित्युपगमेऽतिरिक्तसुखज्ञान तत्सामय्याधकल्पनेन लाघवमपीत्याह- अतिरिक्तति- चन्दनज्ञानातिरिक्तेत्यर्थः । तज्ज्ञानेति- सुखज्ञानेत्यर्थः। तत्सामग्यादति- सुखज्ञानसामग्र्यादीत्यर्थः, आदिपदात् सुखज्ञानप्रागभाव-सुखज्ञानध्वंसाद्युपग्रहः। एतेनेति- अस्य 'निरस्तम्' इत्यनेनान्धयः। एतेन अतिरिक्तसुखज्ञानादिकल्पनगौरवेण, मानसत्वावच्छिन्नं प्रति मानसान्यज्ञानसामग्याः प्रतिबन्धकत्वे सुखदुःखोत्पत्तिकाले चन्दनादिस्पार्शनसामग्रीसत्त्वाचन्दनादिप्रत्यक्षमेव स्याद् न सुखादिमानलप्रत्यक्षमित्यस्य परिहाराय सुख-दुःखानुगतवैजात्यावच्छिन्नाभावविशिष्टाया एव मानसान्यज्ञानसामग्या मानसत्वाच्छन्नं प्रति प्रतिबन्धकत्वमुररीक्रियत इति सुख-दुःखान्यतरसत्त्वे निरुक्तवैजात्याच्छिन्नप्रतियोगिकाभावविशिष्टाया मानसान्यज्ञानसामग्या अभावान्न सुख-दुःखान्यतरविषयकमानसप्रत्यक्षानुपपत्तिरित्यर्थः। उत्तेजकत्वं च प्रतिबन्धकता-कारणतान्यतरावच्छेदकीभूताभावप्रतियोगित्वम् , प्रकृते मानसत्वावच्छिन्नतिवध्यतानिरूपिता या निरुक्तवैजात्यावच्छिन्न प्रतियोगिताकाभावविशिष्टमानसान्यज्ञानसामग्रीनिष्ठप्रतिबन्धकतातदवच्छेदकीभूताभावप्रतियोगित्यात् सुख-दुःखयोरुत्तेजकत्वमिति बोध्यम् । 'पहेन' इत्यतिदिष्टमेव हेतुमुप

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452