Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 426
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ ३६३ __ भोगाख्यलौकिकमानससाक्षात्कारेणानुभवादनुभूयमानता सुखादेः, न तु स्वयंवेदनादनुभूतिरूपतेत्यपि वार्तम्, चन्दनादिस्पर्शनसामग्रीकाले सुखादिमानसानुपपत्तेर्मानससामग्र्याः सर्वतो दुर्बलत्वात्, भिन्नमिति तथासंवेदने 'अहं सुखी' इत्येवंरूपेण सातवेदनम् , 'अहंदुःखी',इत्येवंरूपेणाऽसातवेदनं न भवतीत्यतस्तथासंवेदनस्य सातादिरूपता न दृऐत्यर्थः । स्वसंवेदनेनाऽनुभूयमानत्वं नास्त्येव सुखादेः, किन्विष्टविषयसम्प्रयोगे सुखस्य, अनिष्टविषयसम्प्रयोगे च सुखस्योत्पत्तिः, तद्नन्तरं तेन सुख-दुःखादिना सह मनसः स्वसंयुक्तात्मसमवायलक्षणसन्निकर्षबलाद् अहं सुखी, अहं दुःखी' इत्येवं मानसं सुखादीनां प्रत्यक्षम् , तत् सुखादितो भिन्नमिति परसंवेदनेनैव सुखादीनामनुभूयमानतेति न स्वसंविदितरूपत्वाज्ज्ञानरूपत्वसिद्धिः सुखादीनामिति नैयायिकादिमतमुपन्यस्य प्रतिक्षिपति- भोगाख्येति । अन्यगतसुखादेर्यः सामान्यलक्षणाद्यलौकिकप्रत्यासत्तिप्रभवो मानससाक्षात्कारः स भोगो न भवत्येव, किन्तु स्वसंयुक्तात्मसमवायलक्षणलौकिकसन्निकर्षप्रभव एव स तथेत्यावेदनाय लौकिकेति । वार्तं तुच्छम् । तुच्छत्वे हेतुमुपदर्शयति- चन्दनादीति- यदि सुखं स्वसंविदितप्रत्यक्षेणानुभूयमानं न स्वीक्रियेत, किन्तु मानसरत्यक्षात्मकपरसंवेदनेनैवानुभूयमानं तदुपेयात् , न भवेत् तहि तथा अनुभूयमानं तत् , यतः यदा सुख स्योत्पत्तिस्तदानीं चन्दनादीष्टविषयेण सह त्वगिन्द्रियसन्निकर्ष सति तदनन्तरं चन्दनादेस्त्वगिन्द्रियजन्यप्रत्यक्षमेव स्यान्न सुखस्य मानसम् , मानसप्रत्यक्षसामग्रीतो बहिरिन्द्रियजन्यलौकिकप्रत्यक्षसामग्या बलवत्वेन मानसप्रत्यक्ष प्रति बहिरिन्द्रिय जन्यलौकिकप्रत्यक्षसामग्याः प्रतिबन्धकत्वादित्यर्थः। ननु भोगान्यमानसप्रत्यक्षं प्रत्येव बहिरिन्द्रियजन्यलौकिकप्रत्यक्षसामन्याः प्रतिबन्धकत्वं सुखादिमानससाक्षात्कारमा भोग एवेति प्रतिबध्यतावच्छेदकधर्मानाक्रान्तत्वान्न तत्प्रयुक्तसामग्याः

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452