Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 445
________________ ३८२ ] [ तत्त्वबोधिनोविवृतिविभूषितम् यामेव लाघवादौचित्यं किं बुध्यसे १, पवन्धदृष्टान्तोऽप्यत्र तदा शोभेत, यदि वैषम्यं न स्यात् अस्ति च तत्, तथाहि - अन्धो यद्यपि मार्ग नोपलभते तथापि पङ्गोर्विवक्षामसौ वेत्ति चेतनावत्त्वात्, न चैवं प्रधानं पुरुषविवक्षामधिगच्छतीत्यभ्युपगम्यते, तथा सति भोक्तृत्वमपि तस्य प्रसज्येत, करणज्ञस्य भोक्तृत्वाविरोधात् न च बुद्धिव्यतिरिक्तं चैतन्यं प्रमाणसिद्धमिति कः परचिद्रूप आत्मा ? | यदपि " चिद्रूपाद् बुद्धेर्भेदप्रसाधनाय परैरनुमानमुपन्यस्यते4 ' यद् यदुत्पत्तिमत्व-नाशित्वादिधर्मयोगि तत् तदचेतनम्, यथा भासिक भोक्तृत्वादिकल्पने । दृष्टान्तस्य पबन्ध संयोगरूपस्य दाष्टन्तिकवैषम्याद् दृष्टान्तता न सम्भवतीत्याह- पवन्धदृष्टान्तोऽपीति । तत् वैषम्यम्। दृष्टान्तस्य प्रकृतस्य प्रकृतदान्तिकवैषम्यमेव भावर्याततथाहीति । नोपलभते न पश्यति । असौ अन्धः न च इत्यस्य , अभ्युपगम्यते ' इत्यनेनान्वयः । तथा सति प्रधानस्य पुरुषविवक्षाधि गन्तृत्वाभ्युपगमे सति । तस्य प्रधानस्य, एवं सति प्रकृतिरेव कर्त्री भोक्ती चेति पुरुषकल्पनावैयर्थ्यमिति भावः । ' न च ' ' प्रमाणसिद्धम्' इत्यनेनान्वयः । · ܕ बुद्धावात्मनो भेदत्य साधकं साङ्ख्याभिमतमनुमानमपि न विचारसहमित्युपन्यस्य दर्शयति यदपीति । परः सायाचायैः । 'यद्’ इत्यादि 'रसाइयः' इत्यन्तमुदाहरणम्, 'तथा बुद्धिः ' इत्युपनयः, 'बुद्धिरचेतना, उत्पत्तिमत्त्व नाशित्वादिधर्मयोगित्वाद्' इति प्रतिज्ञाहेतू अत्र बोध्यौ, परमवयवद्व यवादिनं बौद्धं प्रति प्रयोग इति तौ नोक्तौ । अचेतनत्वलक्षण साध्य स्पोत्पत्तिमत्व-नाशित्वादिधयोगित्वं न कार्य किन्त्वेकधमिंग तयोस्तयोस्तादात्म्यमिति प्रकृनहेतुः साध्यस्य

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452