Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 449
________________ ३८६ ] [ तत्त्वबोधिनीविवृतिावभूषितम् अन्यथैतद्वैषम्यनिर्वाहकप्रतिनियतात्मव्यापाराभ्युपगमप्रसङ्गाद् , तत्तकाले तत्तत्पुरुषस्य मोक्ष मम्पादकतत्तत्सहकारिचक्रसमवधायकानन्तशक्तिमत्प्रधानाभ्युपगमे च तत्तत्क्षणोत्तरकायें तत्तत्क्षणस्यैव हेतुत्वावश्यकतया तत्कालैक कारणपरिशेषादेव किमन्तगडुना प्रधानेनेति द्वात्रिंशिकाप्रकरणावादाभिहितमस्माभिः। ___ यदपि ' परार्थाश्चक्षुगदयः' इत्युक्तम् , तत्राप्याधेयातिशयो वापरः साध्यत्वेनाभिप्रेतः १,यद्वाऽविकार्यनाधेयातिशयश्च २, आहोस्वित् सामान्येन चक्षुरादीनां पाराध्ये मात्रं साध्यत्वेनाभिप्रेतम् ३ इति विकल्पत्रयम् , नाद्यः-- सिद्धसाधनात् , अस्माभिरपि चक्षुरादीनां त्याह-एकमुक्ताविति । अन्यथा एकमुक्तौ सरयुक्त्यनभ्युपगमे । एतद्वैषम्येतिएकस्य मुक्तिरन्यस्य न मुक्तिरित्येवं पद् वैषम्यं तन्निवाहकः तत्सम्पादको यः प्रतिनियतात्मव्यापार:-यो मुक्त्यर्थं तदुपायानुष्ठानं करोति तस्य मुक्तिः, यस्तु न तथा यतते तस्य न मुक्तिरिति मुक्त्यर्थ यतमानस्य पुंसो व्यापारस्तस्याभ्युपगमप्रसङ्गादित्यर्थः । यस्मिन् काले यस्य पुरुषस्य मोक्षस्य सम्पादकं तत्सहकारिचक्र तत्समवधानानुकूलशक्तिमत्प्रधानतस्तस्य पुरुषस्य तदा मुक्तिरित्युपगमे प्रतिनियतलहकारिचक्राजन्त्यस्य तत्सम्पादकशक्त्यानन्त्यस्य कल्पनीयतया तदपेक्षया लाघवाद् यद्यत्क्षणोत्तरं यद्यत् कार्यं भवति तत्तत्कार्य तत्तत्क्षणस्य कारणत्वमित्येवं कल्पनैव भद्रा, किमनर्थिकया प्रधानकल्पनयेत्याह- तत्तत्काल इति । तत्तद्विस्तराधिगतयेऽस्मत्कृतहात्रिंशिकाप्रकरणादिकमवलोकनीयं विशेषजिज्ञासुभिरित्याशयेनाह- द्वात्रिंशिकाप्रकरणादाविति । अस्माभिः यशोविजयोपाध्यायैः।। व्यतिरिक्तात्मसिद्धिपर्यवसायि चक्षुरादीनां परार्थत्वसाधनमपि साङ्ख्यस्य विकल्पजर्जरितमित्याह- यदपीति तत्रापि परार्थाश्चक्षुरादयः' इति साधनेऽपि। नाद्य इति-आधेयातिशयः परः साध्यत्वेनाभिप्रेत

Loading...

Page Navigation
1 ... 447 448 449 450 451 452