Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
२८४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
द्वितीये साध्यविपर्यये बाधकप्रमाणाऽदर्शनादनैकान्तिकता, 'मात्र प्रतिबन्धोऽस्ति चेतनस्योत्पाद- नाशाभ्यां न भवितव्यमिति ।
यदपि कल्पितम् --
" वत्स विवृद्धिनिमित्तं, क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुविमोक्षनिमित्तं, तथा प्रवृत्तिः प्रधानस्य " ॥
[ साङ्खयकारिका - ५७ ] इति ।
स्यानुग त्रेऽप्यर्थस्याननुगतत्वे साधनस्य दुष्टत्वमित्यपेक्षायामाह - वस्तुन इति- अर्थस्वरूपहेतुतोऽर्थ स्वरूपस्य सान्यस्य सिद्धेरित्यर्थः । प्रसङ्गसाधने हेतोरुभयवादिप्रसिद्धिर्नापेक्षिता, किन्तु यमुद्दिश्य प्रसङ्गसाधनं प्रयुज्यते तन्मत सिद्धत्वमेव तत्रापेक्षितमिति न तत्रान्यतराऽसिद्धा हेतुर्दुष्ट इति तत्रानैकान्तिकत्वादेव हेतोर्दुष्टत्वमित्याहद्वितीय इति प्रकृतसाधनस्य प्रसङ्गसाधनरूपत्वपक्ष इत्यर्थः । साध्यविपर्यये व्यचेतनत्वलक्षण साध्याभाववति चेतन इति यावत् । बाधकप्रमाणाऽदर्शनात् उत्पत्तिमत्त्वादिलक्षण हेतोर्बाधिकस्य प्रमाणस्याऽदर्शनात् । तथा च साध्याभाववति हेतोः सद्भावाद् अनैकान्तिकता व्यभिचारिता । चेतनमुत्पत्ति-विनाशयन्न भवतीत्यविनाभावो यद्यत्र: स्यात् तदा तङ्ग्राहक प्रमाणमेव 'पक्षे हेतुबाधकं प्रमाणं स्याद्, न चास्त्युक्ताविनाभाव इत्याह- नहाति । अत्र उक्तानुमानस्थले ।
-
अन्यदपि सायकल्पितं न समीचीवमित्याह- यदपीति । तत्क ल्पित मुल्लिखति- वत्सेति- प्रकृतेरचेतनत्वात् पुरुषविमोक्षार्थं प्रवृत्तिरेव म सम्भवतीति साङ्ख्यं प्रत्याक्षेपो न युक्तः, अज्ञस्यापि क्षीरस्य वत्सविवृद्धयर्थं प्रवृत्तेः तथा च अशस्य क्षीरस्य वत्सविवृद्धिनिमित्त यथा प्रवृतिस्तथा प्रधानस्य प्रकृतेरज्ञाया अपि पुरुषविमोक्षनिमित्तं पुरुषस्य मोक्षलक्षण फलार्थ प्रवृत्तिर्महदादि सर्जन लक्षणेत्यर्थः । उक्तस्प
,

Page Navigation
1 ... 445 446 447 448 449 450 451 452