Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 446
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ ३८३ रसादयः' 'तथा च बुद्धिः' इति स्वभावहेतुः" इति, तत्रापि वक्तव्यम्- किमिदं स्वतत्रसाधनम् ? आहोस्वित् प्रसङ्गसाधनम् ?, आद्येऽन्यतराऽसिद्धो हेतुः, यथाविधमुत्पत्तिमत्वमपूर्वोत्पादलक्षणम् , नाशित्वं च निरन्वयविनाशात्मकं प्रसिद्ध बौद्धस्य, न तथाविधं साङ्खयस्य, तयोरविर्भाव-तिरोभावरूपत्वेन तेनाङ्गीकारात्, यथा च साङ्ख्यस्य तौ प्रसिद्धौ, न तथा बौद्धस्येति, न च शब्दमात्रसिद्धावनुगतहेतुसिद्धिः, तदिदमुक्तम् " तस्यैव व्यभिचारादौ, शब्देऽप्यव्यभिचारिणि । दोषवत् साधनं ज्ञेयं, वस्तुनो वस्तुसिद्धितः"॥ [ ] इति । स्वभाव एवेत्याह- स्वभावहेतुरिति । सिद्धान्ती बौद्धमतमालम्ब्योक्तानुमानप्रयोक्तन् साङ्क्षयान् पृच्छति- तत्राऽपीति- उक्तानुमानप्रयोगेऽपीत्यर्थः। आये इदं साधनं स्वतन्त्रसाधनमिति पक्षे । अन्यतराऽसिद्ध इतिसायाभिमतोत्पत्तिमत्त्वादिधर्मयोगित्वस्य हेतूकरणे बौद्धस्य, बौद्धाभिमतोत्पत्तिमत्त्वादिधर्मयोगित्वस्य हेतूकरणे साङ्ख्यास्याऽसिद्धो हेतुरित्यर्थः। अन्यथासिद्धिमेव सङ्गमयति-तथाविधमिति । तयोः उत्पत्तिविनाशयोः। तेन साङ्खयेन । साङ्ख्यमते उत्पत्तिराविर्भावो नाशस्तिरो. भाव इति। तौ उत्पत्ति-विनाशौ। ननूत्पत्ति-विनाशपदवाच्यस्योभयमते एकस्याभावेऽपि उत्पत्त्यादिशब्दस्तावन्मतद्वयसिद्ध एकोऽस्त्येवेति शब्दस्वरूपमात्राश्रयणेन वादि-प्रतिवाद्युभयमतसिद्धो हेतुर्भविष्यतीत्यत आह- न चेति। - शब्दस्यानुगतस्य भावेऽप्यर्थस्यानुगतस्याभावे साधनस्य दुष्टत्वे प्राचां सम्मतिमुपदर्शयति-तदिदमुक्तमिति । तस्मैव साधनीभूतार्थस्यैष । 'व्यभिचारादौ' इत्यादिपवादसिद्धचादरुपग्रहः, सति सप्तमी चेयम् । शब्देऽपीति-साधनाभिलापके शब्देऽनुगते सत्यपीत्यर्थः । कथं शब्द

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452