Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
अनेकान्तव्यवस्था प्रकरणम् ]
[ ३८२ तदेव भोक्तृत्वमस्य, न तु विकारापत्तिः, न च पुरुषे प्रतिबिम्बमात्रसङ्क्रान्तावपि स्वरूपं प्रच्युतिमेति, दर्पणवदविचलित स्वरूपत्वादिति चेत् ? ननु प्रतिबिम्ब सङ्क्रमाऽसम्भवात् तदधिष्ठानत्वमेव सः, तथा च भोक्तृत्वव्यवहारानुरोधात् प्रातिभासिकभोक्तृत्ववत् कर्तुत्वव्यवहारानुरोधात् प्रातिभासिकं कर्तृत्वमप्यात्मनि किं न स्वीक्रियते ? | किञ्च, एवमात्मनि भ्रान्तभोक्तृत्वादिकल्पनापेक्षयाऽभ्रान्ततत्कल्पना
तीत्यर्थः । तदेव अर्थप्रतिबिम्बसक्रमणमेव । अस्य पुंसः । न त्विति - पुंसि विकारापत्तिर्न तु भोक्तृत्वमित्यर्थः । प्रतिबिम्वसङ्क्रान्तावपि पुरुषोऽविचलितस्वरूप पवेति दृष्टान्तावष्टम्भेन समर्थयति - न चेतिअस्य 'पति' इत्यनेन सम्बन्धः । दर्पणवदिति दर्पणे मुखप्रतिबिम्बसङ्क्रान्तावपि यथा दर्पणमविचलितरूपं तथेत्यर्थः । सिद्धान्ती युक्तया तत् प्रतिक्षिपति - नन्वित्यादिना, पकं स्थानं परित्यज्याऽन्यस्थानगमन सङ्क्रमणम्, न च तत् प्रतिविम्वस्य सम्भवतीति प्रतिबिम्वाधिष्ठानत्वमेव प्रतिविम्वसङ्क्रमणम्, तथा च शुक्तौ रजताध्यासाद् रजताध्यासाधिष्ठानत्वं शुक्तेरिति रजतं तत्र प्रातिभासिकम्, न तु वास्तविकम्, पवमपि भ्रमदशायां भ्रान्तस्य रजतव्यवहारस्तत्र, तथा भोक्तृत्वस्योक्तप्रतिबिम्बाधिष्ठानत्वरूपस्य व्यवहारोऽध्यासनिबन्धन इत्यतः प्रातिभासिकभोक्तृत्वमात्मनो न वास्तविकम् एवं कर्तृत्वव्यवहारानुरोधात् प्रातिभासिककर्तृत्वम प्यात्मनि किं न साङ्ख्यैः स्वीक्रियत इत्यर्थः । सः प्रतिविम्बसक्रमः । तथा च प्रतिबिम्बधिष्ठानत्वस्यैव प्रतिबिम्ब सङ्क्रमरूपत्वे च । उक्त दिशा भ्रान्तमेव भोक्तृत्वादिकं साङ्ख्यमते कल्पितं भवति, तत्र चान्यगतं भोक्तृत्वादिकं वास्तविकम् तदन्यत्राऽऽरोपित मिति कल्पनाद्वयं स्यात् तदपेक्षया लाघवाद वास्तविकमेव कर्त्तृत्व-भोक्तृस्वादिकमभ्युपगम्यतामित्याह- किञ्चेति । एवम् उक्तप्रकारेण प्राति
"
,

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452