Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 443
________________ ३८० ] [ तत्त्वबोधिनीविवृतिविभूषितम् स्यादिति वाच्यम्, धर्मधर्मस्यापि प्रकृतिकार्यतया तदुत्पादनद्वारोक्तप्रसङ्गानुद्धारत् । किश्च, यद्यभिलषितं फलं प्रकृतिरुपनयति तदा नानिष्टं प्रयच्छेत्, नहि कश्चिदनिष्टमभिलषति । ... किश्च, उपनयतु नाम प्रकृतिः फलम् , तथापि भोक्तृत्वं पुंसोऽयुक्तम् , अविकारित्वात् , नहि सुख दुःखादिवलादपरितापादिरूपविकारमनुपनीयमानस्य भोक्तृत्वमाकाशवत् सङ्गतम् । ____ अथ न विकारापत्त्याऽऽत्मनो भोक्तृत्वमिष्टम् , किं तर्हि बुद्ध्य ध्यवसितस्यार्थस्य प्रतिबिम्बोदयन्यायेन सञ्चतनात् , तथाहि- बुद्धिदर्पणसङ्क्रान्तमर्थप्रतिविम्बकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहति, प्रतिक्षेपहेतुमुपन्यस्यति- धर्मधर्मस्यापीति- धर्मात्मकधर्मस्यापीत्यर्थः, अपिना फलस्योपग्रहः। तदुत्पादनद्वारा धर्मोत्पादनद्वारा। उक्तप्रसङ्गेतिसर्वदा सर्वस्य पुंसोऽभिलषितार्थसिद्धिप्रसङ्गेत्यर्थः। अभिलषितं सर्वस्येष्टमेव भवति नानिष्ट कस्यचिदभिलषितमित्यभिलषितफलदान एव यदि प्रकृतिः प्रभुः सर्वस्याभिलषितमेव विध्यादित्यनिष्टफलानुत्पादप्रसङ्ग इत्याह- किञ्चेति । कुतोऽनिष्टं न प्रयच्छे दित्यपेक्षायामाह- नहीति । पुरुषस्य साङ्ख्याभिमतं भोक्तृत्वमपि न युक्तमित्याह- किञ्चेति । पुंसो भोक्तृत्वस्यायुक्तत्वे हेतुमाह- अधिकारित्यादिति । अविकारिणि भोक्तृत्वासम्भवे युक्तिमुपढौकयति- नहीतिअस्य 'सङ्गतम्' इत्यनेनान्वयः। प्रतिविम्बोदयन्यायेन भोक्तृत्वमात्मनोऽविकृतत्वेऽपि सङ्गतिमङ्गतीति साङ्ख्यः शङ्कते- अथेति । 'न' इत्यस्य 'इष्टम् ' इत्यनेनान्वयः, इष्टं साङ्ख्याचारिष्टम् । प्रतिबिम्बोदयन्यायेन भोक्तृत्वमुपपादयति-तथाहीति। 'अर्थप्रतिबिम्बकम्' इत्यस्य 'अध्यारोहति' इत्यनेनान्वयः, अध्यारोहतीत्यस्य सङ्ग्राम

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452