Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 429
________________ ३६६ ] [ तत्त्वबोधिनीविवृतिविभूषितम् गौरवात् , वैजात्येन सुख-दुःखयोर्वा तत्रोत्तेजकत्वं मनःसंयोगविशे. पादेति विनिगमनाविरहाचेति नव्यबौद्धसिद्धान्तस्यैवोद्धतत्वात् । किच शब्दादीनां सुखादिरूपत्वे भावनावशेन मद्या-ऽङ्गानादिषु कामुकादीनाम् , करभादीनां च कण्टकादिषु प्रतिनियताः प्रीत्यादयो न प्रादुर्भवेयुः, किन्तु प्रत्येकं चित्रा संवित् प्रसज्येत । अथ यद्यपि त्रयात्मकं वस्तु तथाप्यदृष्टादिसहकारिवशात् किञ्चिदेव कस्यचिद्रूपमाभाति न सर्व सर्वस्येति चेत् ? न-तदाकारशून्यत्वादवस्त्वालम्बनप्रतीतिप्रसक्तेः, तथाहि-त्र्याकारं तद्वस्त्वेकाकारं च संविदा संवेद्यत इति । न च, यथा प्रत्यक्षेण गृहीतेऽपि सर्वात्मना वस्तुन्यभ्यासादिवशात् क्वचिदेव क्षणिकत्वादौ निश्चयोत्पत्तिर्न सर्वत्र, तद्वददृष्टादिबलादेकाकारा संविदुदेष्यतीत्यभिधातुं क्षमम्, क्षणिकादिविकल्पसापि परमार्थतो वस्तुविषयत्वानभ्युपगमात् , वस्तुनो विकल्पादर्शयति - तदुत्तेजकत्वेति-सुख-दुःखोत्तेजकत्वेत्यर्थः। निरासे हेत्वन्तरमप्याह- वैजात्येनेति। तत्र मानसान्यज्ञानसामग्रीनिष्ठप्रतिबन्धकतायाम् । सुख-दुःखादिकं ज्ञानस्वरूपमेवेति नव्यबौद्धसिद्धान्तः। अपि च शब्दादीनां सुख-दुःख-मोहस्वरूपत्वे सर्वस्य पुंसस्तेषु प्रीत्यप्रीति-मोहादिचित्रप्रतिपत्तिः स्यात् , न तुकस्यचित् कुत्रचित्प्रीतिः कस्यचिदप्रीतिरित्येवं प्रीत्यादयः प्रतिनियताःप्रादुर्भवेयुरित्याह किञ्चेति। 'कामुकादीनाम्' इत्यस्य 'प्रीत्यादयः' इत्यत्रान्वयः। चित्रा प्रीत्यप्रीति मोहात्मिका । साङ्ख्यः शङ्कते- अथेति । प्रतिक्षिपति-नेति। त्रयात्मकं वस्तु प्रतीतिश्चैकाकारेति त्रयात्मकवस्त्वाकारत्वाऽभावादेकात्मकस्याऽवस्तुत्वेन तदाकारप्रती तेरवस्त्वालम्बनत्वेनाऽवस्त्वालम्बनप्रतीतिप्रसङ्गादित्यर्थः। एतदेव स्पष्टयति- तथाहीति । न चेति- अस्य 'क्षमम्' इत्युत्तरेणाऽन्वयः। निषेधे हेतुमाह- क्षणिकादिविकल्पस्यापीति । कथं न क्षमिकादिविकल्पस्य परमार्थतो वस्तुविषयत्वमित्याकाङ्क्षायामाह- दस्तुन इति।

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452