Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३६८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् इत्येतदभिधानमसङ्गतं स्यात्, सुखादिसंविदां च सविकल्पकत्वान किञ्चिदनिश्चित रूपमस्तीति सर्वात्मनाऽनुभवख्यातिप्रसक्तिः । यदि च, त्रिगुणात्मकत्वं शब्दादीनाम् , ततः प्रीत्यादिप्रतिपत्तिनियमाय पुरुषविशेषेऽदृष्टविशेषस्य तन्नियामकत्वं दुःखादिधीप्रतिबन्धकत्वं च कल्पनीयम् , तदा दशाविशेषे प्रीतिधीस्थले परितापधीन स्यात् प्राक्तनाक्षयाऽपूर्वादृष्टोत्पत्तिसामग्र्यभावाद्, दशाविशेषस्यैवोत्तेजमापतति तद् दर्शयति- सुखादिसंविदां चेति । ततः त्रिगुणात्मकत्वतः। तन्नियामकत्वं प्रीत्यादिप्रतिपत्तिनियमहेतुत्वम् । दुःखात्मकत्वे सत्यपि यत् तदानीं न दुःखधीस्तत्र तदर्थ दुःखधीप्रतिबन्धकत्वमपि तस्यैवाऽदृष्टविशेषस्थ कल्पनीयमित्याह- दुःखादिधीप्रतिबन्धकत्वं चेति। तदा अदृष्टविशेषस्य दुःखादिधीप्रतिबन्धकत्वकल्पने च। दशाविशेष इति- यस्यैव पुंसो यत्र पूर्व सुखधीन दुःखादिधीस्तस्यैवोत्तरकाले तत्रैव दुःखादिधीरपि भवति, सा न भवेत् प्रतिबन्धकीभूतस्याऽदृष्टविशेषस्याऽक्षयात् , दुःखादिधीकारणीभूतस्याऽदृष्टविशेषस्य पूर्व सत्त्वे पूर्वमपि दुःखादिधीर्भवेत् , न च पूर्व दुःखादिधीरतः पूर्व तदनुकूलादृष्टविशेषो नासीदेव, तदानीं च तदनुकूलादृष्टविशेष. सामग्र्यभावादेव न तदुत्पत्तिः, तदभावाच्च कथं दुःखादिधीः स्यात् ।। यादृशदशाविशेषे दुःखादिधीर्भवति तादृशदशाविशेषाभावविशिष्टस्यादृष्टविशेषस्यैव दुःखादिधीप्रतिबन्धकत्वमिति तथाभूतप्रतिबन्धकाभाववलादेव तदानीं दुःखादिधिय उत्पत्तिस्वीकारे तु वरं ताशदशाविशेषस्यैव दुःखादिधीकारणत्वम् , तथादशाविशेषस्य सुख दि. धीकारणत्वमिति कालैककारणपरिशेषापत्तिः, अदृष्टस्य पुण्य-पापरूपतया तत्र धर्मत्वादिना साङ्कयान्न वैजात्यसम्भव इति तद्रूपेण कारणत्वं प्रतिबन्धकत्वं च न सम्भवत्यपीत्याह- तदेति । 'प्राक्तना
क्षयाऽपूर्वदृष्ट.' इति स्थाने 'प्राक्तनाऽदृष्टाक्षयादपूर्वादृष्ट०' इति . पाठो युक्तः। दशाविश्लेषस्यैवेति- यहशायां दुःखादिधीस्तदशाविशेषस्यै.

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452