Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
पा५यत ।
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३७७ कृतदोषानुद्धारात् ।
किश्च, कर्तृत्व-भोक्तृत्वयोः सामानाधिकरण्यनियमात् कर्तृत्वाभावे भोक्तृत्वमपि तस्य न युक्तम् , नह्यकृतस्य कर्मणः फलं कश्चिदुपभुङ्क्ते, अकृताभ्यागमप्रसङ्गात् , न च पुरुषस्य कर्माऽकर्तृत्वेऽपि प्रकृतिरस्याभिलषितमर्थमुपनयतीत्यसो भोक्ता भवति, यतो नासावप्यचेतना सती शुभा-ऽशुभकर्मणां की युक्ता, येन कर्मफलं पुरुषस्य सम्पादयेत् ।
अथ यथा पङ्ग्वन्धयोः परस्परसम्बन्धात् प्रवृत्तिस्तथा महदा___ अन्यकृतस्य कर्मणोऽन्येन भोगाभावाद् य एव कर्ता स पव भोक्तेति कर्तृत्व-भोक्तत्वयोः सामानाधिकरण्यव्यवस्थितेरात्मनः साङ्ख्यमते कर्तृत्वाभावे भोकृत्वमपि न स्यादित्याह- किचेति । तस्य आत्मनः । कर्तुरेव भोकृत्वमित्यस्योपपादनायाह नहीति- अस्य 'उपभुङ्क्ते' इत्यनेनान्वयः। साङ्ख्यमते चैत्रण यत् कृतं कर्म तद् वस्तु. तश्चैत्रात्मना न कृतमेव, तस्योपभोगो यथा चैत्रस्य तथा मैत्रादेरपि स्याद्, इत्यकृतकर्मोपभोकृत्वलक्षणस्याऽकताभ्यागमस्य प्रसङ्ग इत्यतः कतैव भोक्त्यात्मनः कर्तृत्वाभावे भोक्तृत्वमपि न स्यादित्याहअकृताभ्यागमप्रसङ्गादिति। यद्यपि पुरुषो न कर्ता तथाऽपि प्रकृतिः स्वकृतकर्मणः फलं पुरुषस्याभिलषितं प्रयच्छतीत्यकृतकर्मफलभोगोपपत्तिः पुरुषस्याकर्तृत्वेऽपीति साङ्ख्यमतमाशङ्कय प्रतिक्षिपति-न चेति । अस्य आत्मनः। अर्थ कर्मफलम् । उपनयति प्रापयति । असौ आत्मा। निषेधे हेतुमाह- यत इति। 'न' इत्यस्य 'युक्ता' इत्यनेनान्वयः। असौ प्रकृतिः, यो जानाति स एव कर्तुं प्रभवति, अचेतना' च प्रकृतिः कर्म-तत्फलादिकम जानन्तीन की युक्तेत्यर्थः । येन कर्तृत्वेन, 'प्रकृतिः' इत्यनुवर्तते।
पुनः साङ्घयः स्वमतं तदुपपादनाय शङ्कते- अथेति। पङ्ग्वन्धयो

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452