Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३७६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् विरोधः, दिदक्षा शुश्रूषादीनामुत्पादे आत्मनोऽप्युत्पादप्रसङ्गात् , तदव्यतिरेकात् तासाम् , व्यतिरेके च तस्य ता इति सम्बन्धानुपपत्तः, उपकारस्य तन्निवन्धनस्याभावात् , भावे वा तत्रापि भेदाभेदविकल्परूपादिसंविद इति। यद्यात्मा सर्वथैकरूपः स्यात् तहि पूर्वमभोक्ता पश्चाद् भोक्तेत्यवस्थाद्वयमपि विरोधान्न सम्भवतीत्यनेकविधार्थस्य भोक्तत्वं तस्येत्यभ्युपगमोऽपि साङ्ख्यस्य विरुध्येतेत्याह-एकरूपत्वे चेति । विरोधे हेतुमुपदर्शयति - अभोक्त्रवस्थेति । एकरूप एवात्मा दिदृक्षादियोगाद् भोक्ता भवतीति न विरोध इत्याशङ्कां प्रतिक्षिति- न चेति । आत्मना सह दिक्षादेरभिन्नत्वे दिदृक्षादीनामुत्पादे आत्मनोऽप्युत्पादः स्यादिति नित्यत्वं तस्य न भवेदित्याह- दिदृक्षेति । तदव्यतिरेकात् आत्मनोऽभिन्नत्वात् । तासां दिदृक्षा-शुश्रूषादीनाम् । ननु दिदृक्षाद्या आत्मनो भिन्ना पवाभ्युपगम्यन्त इति न तासामुत्पादे आत्मन उत्पादप्रसङ्ग इत्यत आह- व्यतिरेके चेति-दिदृक्षादीनामात्मनो भिन्नत्वे चेत्यर्थः । तस्य आत्मनः। ताः दिदृक्षाद्यवस्थाः। सम्बन्ध नुपपतेः षष्ठीविभत्या. ऽभिलप्यमानस्य सम्बन्धस्यानुपपत्तेः, भेदे सम्बन्धाभ्युपगमे यथा त्मनो भिन्नास्तास्तथाऽऽकाशादितोऽपि भिन्ना इति यथाऽऽत्मनस्ता. स्तथाऽऽकाशादेरपि ताः प्रसज्येरनिति भेदे न सम्बन्धोऽभ्युपगमाह इत्याशयः। ननु भिन्नत्वाविशेषेऽपि यत्रैवोपकारं विदधति तास्तेनैव सम्बध्यन्त इत्यात्मन्युपकाराधानादात्मना सम्बध्यन्ते नाकाशादिभिस्तेषूपकारानाधानादात्मनस्ता नाकाशादीनामित्यत आहउपकारस्येति । तन्निबन्धनस्य सम्बन्धनिबन्धनस्य । भावे वा सम्बन्धनिवन्धनस्योपकारस्य भावे वा, उपकारोऽप्यात्मनि क्रियमाण आत्मनो भिन्नोऽभिन्नो वा क्रियेत ?, आये आत्मन उपकार इति सम्बन्धानुपपत्तिः, भेदेऽपि सम्बन्धाभ्युपगमे आकाशादीनामपि स स्यादिति तद्वलादाकाशादीनां ता इति प्रसज्येत, द्वितीये उपकारोत्पादतस्तदभिन्नस्यात्मनोऽप्युत्पादप्रसङ्ग इत्याह- तत्राऽपीति- उपकारेऽपीत्यर्थः।

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452