Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३४४]
[ तत्त्वबोधिनीविवृतिविभूषितम् वा भवेद् अनपगमे वा ? आये निरन्वयनाशः, द्वितीये लयानुपपत्तिः, अविकलवरूपस्य लयोपगमेऽतिप्रसङ्गादिति दिग् ॥
___ यदपि- “प्रधानविकारबुद्धिव्यतिरिक्तं चैतन्यमात्मनो रूपं ते कल्पयन्ति, 'चैतन्यं पुरुषस्य स्वरूपम्' [ ] इत्यागमात्, पुरुषश्च शुभाशुभकर्मफलस्य प्रधानोपनीतस्य भोक्ता, न तु कर्ता, सकलजमत्परिणतिरूपायाः प्रकृतेरेव कर्तृत्वोपगमादिति वदन्ति, प्रमाणयन्ति चात्र- यत् सङ्घातरूपं वस्तु तत् परार्थम् , यथा- शयनाभवेद्, न चैवमिति युक्तमुक्तं 'क्वचिदपि लयासिद्धेः' इति । लयासिद्धिमेवोपपादयति- लयो हीत्यादिना। आये पूर्वस्वभावापगमे लयो भवतीति पक्षे, निरन्वयनाशलक्षणे लये सत्युपादानीभूतस्थानाभावान्न तत्र लय इति न तेनाऽविभागः। द्वितीये पूर्वस्वभावानपगमे लयो भवतीति पक्षे। तदानीं पूर्वस्वभावलक्षणं स्वस्वरूपं तस्यास्त्येवेति लयानुपपत्तिः। स्वस्वरूपावस्थानेऽपि लयोपगमे प्रकृतेरपि प्रलये स्वस्वरूपेणावस्थिताया लयः स्यादित्याह- अविकलस्वरूपस्येति ।
साङ्ख्यामिमतं पुरुषस्वरूपमपि तन्मतोपदर्शनपूर्वकं दूषयतियदपीति। प्रधानेति-प्रधानस्य- मूलप्रकृतिरूपस्य विकारः प्रथमविकृतिर्या बुद्धिर्महदाख्या, तद्वयतिरिक्तम्-तद्भिन्नम् । ते साङ्ख्याः। आगमप्रमाणभूला तदीयात्मरूपचैतन्यकल्पनेत्युपदर्शयितुं तद्रूपावः बोधकमागममुल्लिखति- पैतन्यमिति । चैतन्यस्वरूपात्मद्रव्याभ्युपगमे तस्यैव कर्तृत्वमुपगम्यतामित्यत आह- पुरुषश्चति। कथं न कर्तृत्वं पुरुषस्येत्यपेक्षायामाह- सकलेति। यदि सत्त्व-रजस्तमोरूपा प्रकृतिरेव की, तर्हि तद्वयतिरिक्त किं प्रमार्णामत्यपेक्षायामाह-प्रमाणयन्ति चेति । अत्र प्रकृत्यादिव्यतिरिक्तचैतन्यस्वरूपपुरुषे । अत्र 'चक्षुरादयः परार्थाः सङ्घातरूपत्वात्' इति प्रतिज्ञा हेतू, बौद्धश्चोदाहरणोपनयावेवावयवद्वयमभ्युपगच्छति, तं प्रत्यक्यवद्वयप्रयोग एव न्याय्य

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452