Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 435
________________ ३७२ ] [ तत्त्वबोधिनीविवृतिविभूषितम् णादियुक्तस्योत्पत्याविरोधात् । न च प्रधान प्रेक्षावत् कारणं युक्तम् , अचेतनत्वात् तस्य, 'शक्तितः प्रवृत्तेः' इत्यनेन च किमप्यतिरिक्तशक्तिमत् कारणं साध्यते ? आहोस्वित् व्यतिरिक्तानेकशक्तिसम्बन्धि तदेकत्वादिधर्मकलापाध्यासितम् ? नाद्यः-सिद्धसाधनात् कारणमात्रस्य ततः सिद्ध्यभ्युपगमात्, द्वितीये हेतोरनैकान्तिकता, तथाभूतेन क्वचिदप्यन्यथासिद्धेः, न च विभिन्नशक्तिमेतत् परिमितकार्य मेवोत्पादयितुं प्रभुरीदृशसामर्थ्य वलात् प्रतिनियतपरिमाणस्य कार्यस्योत्पत्तौ विरोधाभावेन प्रेक्षावत्कारणस्य ततः सिद्धयभावादित्यर्थः। किञ्च, चेतनं प्रेक्षाकारि भवति, नाचेतनम् , प्रधानं चाऽचेतनमुपेयते साङ्ख्यरिति प्रेक्षावत्कारणसाधने न प्रधानसिद्धिरपीत्याह- न चेति- अस्य ‘युक्तम्' इत्यनेनान्वयः। तस्य प्रधा. नस्य । 'शक्तितः प्रवृत्तेः' इति हेतुं विकल्प्य दूषयति- शक्तित इति। 'शक्तितः प्रवृत्तेः' इत्यनेनाऽतिरिक्तशक्तिमत् किमपि कारणं साध्यत इति प्रथमपक्षं प्रतिक्षिपति- नाऽऽद्य इति । यत् किमपि कारणं यत्र कचन कार्य प्रति मयोपेयते तत् तत्र शक्तिमदेवेति तथासाधने सिद्धसाधनमेवेत्याह- सिद्धसाधनादितिः। उत्तरग्रन्थपर्यालोचनया प्रथमविकल्पे 'अतिरिक्तशक्तिमत् कारणम्' इति स्थाने 'अनतिरिक्तशक्तिमद्' इत्याभाति, यतोऽत्र साङ्ख्यस्य प्रतिमल्लीकृतो बौद्धः कुर्वद्रूपत्वाख्यलक्षणामेव शक्तिमुररीकरोति, सा च शक्तिः कारणस्यात्मभूतैव, अत एव द्वितीयपक्षखण्डने 'स्वात्मभूतत्वाच्छक्तीनाम्' इत्युक्तमिति। व्यतिरिक्तानेकशक्तिसम्बन्धि तदेकत्वादिधर्मकलापाध्यासितं साध्यत इति द्वितीयकला दूषयति- द्वितीय इति । अनन्यथासिद्धौ सत्यां कारणत्वं भवति, न त्वन्यथासिद्धौ, प्रकृते चोक्त. रूपेणान्यथासिद्धिरेव, न त्वनन्यथासिद्धिरिति व्यतिरिक्तानेकशक्तिसम्बन्धिन एकत्वादिधर्मकलापाध्यासितस्य प्रधानस्यानन्यथासिद्धय

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452