Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 434
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [३७१ परिमाणादीनां विरोधः सिद्धः, तथाहि यदि तावत् कारणमात्रस्यास्तित्वं साध्यते, तदा सिद्धसाध्यता, नह्यस्माकं कारणमन्तरेण कार्यस्योत्पादोऽभीष्टः, न च कारणमात्रस्य प्रधानमिति नामकरणे किश्चिदस्माकं हीयते । अथ प्रेक्षावत् कारणमस्ति, यद् व्यक्तं नियतपरिमाणमुत्पादयति शक्तितश्च प्रवर्तत इति, तदयुक्तम्- अनैकान्तिकत्वात्, प्रेक्षावत् कारणं विनापि स्वहेतुसामर्थ्यात् प्रतिनियतपरिमाप्रधानलक्षगसाध्यस्याभावेन विरोधालिद्धया न तेभ्यः प्रधानसिद्धि. रित्याह - नहीति- अस्य 'सिद्धः' इत्यत्रान्वयः। हेतोः महदादिकारणत्वेनाभिमतस्य, यदि प्रधानाभावेन सह परिमाणादीनां विरोधः स्यात् तदा प्रधानाभावविरुद्धत्वात् परिमाणादयः प्रधानव्याप्ता इति तैः प्रधानलक्षणसाध्यसिद्धिर्भवेत् , विरोधाभावे तु परिमाणादयोऽपि भवेयुः प्रधानाभावोऽपि स्यादिति न प्रधानसिद्धिरित्याशयः। परिमाणादितः प्रधानाऽसिद्धिमेव भावयति-तथ हीति । यदि कार्यगतपरिमितत्वादिहेतुना कारणमात्रास्तित्वसाधनमभिमतं तदा लिद्धसाध्यता, तामेव स्पष्टयति- नहीति- अस्य 'अभीष्टः' इत्यनेनान्वयः। अस्माकं सायभिन्नवादिनाम् , एवमग्रेऽपि। ' न चइत्यस्य 'हीयते' इत्यनेनान्वयः, कार्यण कारणमात्रं यत् सिध्यति तस्य कारणस्य प्रधानमिति संज्ञाऽस्तु नाम साहयकृता, ततः सायकृता, ततः साङ्ख्यातिरिक्तवादिनां न किञ्चिद्धीयत इत्यर्थः। साङ्ख्यः शङ्कतेअथेति-कार्यस्थ परिमितत्वादिना न कारणमात्रस्यास्तित्वं साध्यते, किन्तु प्रेक्षावकारणस्यास्तित्वं साध्यते, प्रेक्षावत् कारणं हि नियतपरिमाण कार्यमुत्पादयितुमलम् , शक्तितश्च प्रवर्तत इति, उक्ताशङ्कां प्रतिक्षिपति- तदयुक्तनिति । अयुक्त चहेतुमनैकान्तिकत्वमेव समर्थयतिप्रेक्षावत् कारग विनाऽवीति । स्वहेतुसामार्थ्यादिति-कार्यस्य यो हेतुस्तत्सा. मर्थ्य कारण नियतपरिमाणयुक्त कार्यनिरूपितमित्यर्थः, इदं कारण.

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452