Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
भनेकान्तब्यवस्थाप्रकरणम् ]
[३६९ कत्वे तु तस्यैव सर्वत्र हेतुत्वसम्भवात् कालैककारणपरिशेषापत्तिः' अदृष्टे पुण्य-पापरूपे साकर्याजातिरूपविशेषाऽसम्भवश्चेति यत्किश्चिदेतत् । यदपि 'प्रसाद-ताप-दैन्यायुपलम्भात् सुखाद्यन्वितत्वं सिद्धं शब्दादीनाम् ' इत्यभिहितम्, तदप्यनैकान्तिकम् , तथाहियोगिनां प्रकृतिव्यतिरिक्तं पुरुषं भावयतां तमालम्ब्य प्रकर्षप्राप्तयोगानां प्रसादः प्रादुर्भवति प्रीतिश्च, अप्राप्तयोगानां तु द्रुततरमपश्यतामुद्वेग आविर्भवति, जडमतीनां च प्रकृत्यावरणम् , न च परैः वेत्यर्थः। उतेजकत्वे तु अदृष्टविशेषनिष्ठदुःखादिधीप्रतिषन्धकतावच्छे. दकोभूताभावप्रतियोगित्वे पुनः, तादृशदशाविशेषाभावविशिष्टा. ऽदृष्टविशेषस्य दु खादिधीप्रतिबन्धकत्वे त्विति यावत् । तस्यैव दशा. विशेषस्यैव। सर्वत्र सुखादिधीदुःखादिधीप्रभृतिकार्ये । अदृष्टे वैजात्यसम्भवे तद्रूपेण किश्चित् कार्य कारणत्वं प्रतिबन्धकत्वं वा कल्प्येताऽपि साङ्कर्येण च न तत्र वैजात्यसम्भव इत्याह- अदृष्ट इति ।
प्रसादायुपलम्हेतोरप्यनैकान्तिकत्वेन तेन शब्दादीनां सुखा. धन्वितत्वसाधनमपि साङ्ख्यस्य न समीचीनमित्याह- यदपीति । प्रसादाद्युपलम्भर सुखाद्यन्वितत्वलक्षणसाध्याभाववति पुरुषे सत्त्वे. नाऽनैकान्तिकत्वं स्पष्टयति - तथाहीति। तं पुरुषं यमालम्ब्य प्रसादप्रीत्याद्युत्पत्तिर्भवति, तस्य सुखान्वितत्वम् , साङ्ख्यस्याभिमतं पुरुषमालम्ब्य प्रसादाद्युत्पत्तिः प्रकर्षप्राप्तायोगानां योगिनां भवति, न च पुरुषस्य त्रिगुणरहिततया साङ्ख्याभ्युपगतस्प सुखान्वितत्व मिति व्यभिचारः, अप्राप्त योगानां पुरुषाणां पुरुषं द्रुततरमपश्यतां 'पुरुषमालम्ब्योद्वेगो भवति, न च पुरुषस्य दुःखान्वितत्वमिति व्यभिचारस, तथा जडमतीनां च पुरुषमालम्ब्य प्रकृत्यावरणं तमः कार्यत्वेन सम्मतमाविर्भवति, न च पुरुषस्य मोहान्वितत्वमिति व्यभिचारः। ' न च ' इत्यस्य 'अभीष्टः' इत्यनेनान्वयः। परैः सायः ।

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452