Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 433
________________ ३७०] [ तत्त्वबोधिनीविवृतिविभूषितम् पुरुषस्त्रिगुणात्मकोऽभीष्ट इति । न च सङ्कल्पात् प्रीत्यादीनि प्रादुर्भवन्ति न पुरुषादिति वाच्यम् , शब्दादिष्वप्यस्य समानत्वात् , तस्मात् 'समन्वयाद्' इत्यसिद्धो हेतुरनैकान्तिकश्च, प्रधानान्वयस्य कचिदप्यसिद्धेः ' यदात्मकं कारणं तदात्मकं कार्यम्' इत्यस्यापि दुर्वचत्वात् , व्यक्ताऽव्यक्तयोः स्वयमेव भेदप्रतिपादनात् , विरुद्धश्चानित्यानेकरूपेण कार्येण तादशस्यैव प्रधानस्य सिद्धेः। अनेनैव न्यायेनान्येऽपि हेतवो निरसनीयाः। नहि प्रधानाख्यस्य हेतोरभावेन तत्र व्यभिचारपरिहारमाशङ्कय प्रतिक्षिपति-न चेति- अस्य वाच्यम्' इत्यनेनान्वयः । अस्य 'सङ्कल्पात् प्रोत्यादीनि प्रादुर्भवन्ति, न शब्दादिभ्यः' इत्यस्य । उपसंहरति-तस्मादिति। प्रधानान्वयित्वस्थ सिद्धौ सत्यां ततः प्रधानात्मकत्वं सिध्येदिति विशेषतः प्रधानान्वयित्वलक्षणहेतोः प्रधानासिद्धया, न क्वचिदपि सिद्धिरित्याह- प्रधानान्वयस्येति । यदात्मकं कारणं तदात्मकं कार्यमिति लामान्यन्याप्तिापिन सिद्धा, येन प्रथा. नस्य त्रिगुणात्मकत्वे शब्दादीनामपि त्रिगुणात्मकत्वं स्यादित्याहयदात्मकमिति निरुतव्याप्तेर्वचत्वे हेतुमाह- व्यक्तेति-व्यतं बुद्धयादि, अव्यक्तं प्रधानमित्येवं व्यक्ताऽव्यक्तयोः कार्य-कारणयोः स्वयमेव सालेयनैव भेदप्रतिपादनात् , तथा च अव्यक्तात्मक प्रधानलक्षणं कारणम् , कार्य च महदादिना व्यक्तात्मकमित्युक्तव्याप्तेरभावादित्यर्थः। नित्यैकरूपप्रधानप्रसाधनाय चोक्तहेतूनामादरः, उक्तव्याप्त्या च अनित्याऽनेकरूपं महदादिकार्य तदा भवेद् यद्यनित्यानेकरूपं प्रधानलक्षणं कारणं स्थादित्यनित्यानेकरूपेण महदादिकार्येणाऽनित्याने करूपस्यैव प्रधानस्य सिद्धिः स्यादिति विरुद्धोऽपि तदन्वयादिहेतुरित्याह-विरुद्ध चेति। तत्रैव हेतुमाह - अनित्येति । तादृशस्यैव अनित्यानेकरूपस्यैव ! अनेनैव न्यायेन समन्वयहेतुखण्डनयुक्त्यैव । अन्येऽपि हेतवः प्रधानसाधनायोपन्यस्ताः परिमाणादिहेतवोऽपि । परिमाणादिहेतूनां

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452