Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३६२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् शब्दादिलक्षणं व्यक्तं सुखाद्यन्वितं सिद्धम् , सुखादीनां ज्ञानरूपत्वात् , शब्दादीनां च तद्रूपविकलत्वात् , न च सुखादीनां ज्ञानरूपत्वमसिद्धम् , खसंवेदनरूपतया स्पष्टमनुभूयमानत्वात् तत्त्वसिद्धेः, तथाहि- स्पष्टेयं सुखादीनां प्रीति-परितापादिरूपेण शब्दादिविषयसन्निधाने प्रकाशान्तरनिरपेक्षा प्रकाशात्मिका स्वसंवित्तिः, यच प्रकाशान्तरनिरपेक्षं सातादिरूपतया स्वयं सिद्धिमवतरति तद् 'ज्ञानं, संवेदनं, चैतन्यं, सुखम् ' इत्यादिभिः पर्यायशब्दैरभिधीयते, न च सुखादीनामन्येन संवेदनेन वेदनादनुभूयमानता, तत्संवेदनस्यासातादिरूपताप्रसक्तेः, नहि योगजप्रत्यासत्याऽनुमानादिना वा परकीयसुखादिसंवेदने सातादिरूपता दृष्टा। असिद्धत्वं स्वरूपासिद्धत्वम् , ' उद्भावयन्ति' इत्यत्र कर्मतयाऽन्वितम् । तदुद्भावनस्वरूपमेव प्रकटयति- तदाहीत्यादिना। तद्रूपविकलत्वात् ज्ञानरूपरहितत्वात् । सुखादीनां ज्ञानरूपत्वासिद्धिमाशङ्कय परिहरतिन चेति । तत्त्वसिद्धेः सुखादीनां ज्ञानरूपत्वसिद्धेः । स्वसंवेदनप्रत्यक्ष विषयत्वेन सुखादीनां ज्ञानरूपत्वसाधनमुपदर्शयति- तथाहीति। 'स्पष्टेयम्' इत्यस्य 'स्वसंवित्तिः' इत्यनेनान्वयः। 'सुखादीनाम् ' इत्यादिपदाद्' दुःखादीनामुपसङ्गहः, इष्टशब्दादिविषयसन्निधाने सति प्रकाशान्तरमन्तरेणैव प्रीतिरूपेण सुखस्य प्रकाशात्मिका स्वसंवित्तिर्भवति, तथाऽनिष्टशब्दादिविषयसन्निधाने सति परितापरूपेण प्रकाशान्तरमन्तरेण दुःखस्य प्रकाशात्मिका स्वसंवित्तिर्भवतीत्यर्थः । 'सातादि' इत्यादिपदादसातादेरुपग्रहः। सुखादीनामन्येन संवेदनेन वेदनतोऽनुभूयमानत्वं प्रतिक्षिपति- न चेति । तत्संवेदनस्य सुखादीनामन्यवेदनेन संवेदनस्य । अन्यवेदनेन संवेद्यमानस्य सातादिरूपत्वमदृष्टत्वान्न भवतीत्युपदर्शयति- नहीति-अस्य ‘दृष्टा' इत्यनेनान्वयः, परकीयसुखादीनां यज्ज्ञानं तनियमेन विषयीभूतपरसुखादितो

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452