Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 423
________________ ३६० ] [ तत्त्वबोधिनीविकृतिविभूषितम् शक्तौ तदभेदपर्यवसितमिति तत्कुक्षिप्रविष्टत्वमवधीनां स्वीक्रियते, तदा 'घटाभावः, पटाभावः' इत्यादिव्यवहारानुरोधेन घटादीनामभावकुक्षिप्रविष्टत्वादभावे घटादिसत्त्वमपि प्रसज्यते, 'चैतन्यं जडभिन्नम्' इत्याद्यनुरोधाच्चैतन्येऽपि च जडसचमासज्येत, तथा च महदासमञ्जस्यमिति दिग। किञ्च सत्कार्यवादे बन्ध-मोक्षाभावोऽपि साङ्ख्यानामासज्यते, प्रधान-पुरुषयोः कैवल्योपलम्भलक्षणतत्वज्ञानोत्पत्तौ ह्यपवर्गस्तैरिष्यते, तत्त्वज्ञानं च सर्वदा व्यवस्थितमेवेति सर्व एव देहिनोऽपावृताः स्युः, स्यापि तदानीं सत्त्वं यदि स्वीक्रियेत तदाऽभावव्यपदेश-विकल्पयोरपि प्रतियोगिलहिताभावविषयावतःप्रतियोगिनोऽप्यभावकुक्षिप्रविष्टत्वेन तदभेदमुपाश्रित्य प्रतियोगिनोऽप्यभावे सत्त्वं प्रसज्येत, एवं ज्ञानलक्षणचैतन्यमपि विषयनिरूप्यमिति विषयीभूतजडसंवलितचैतन्य. विषयकव्यपदेश-विकल्पबलाजडीभूतविषयस्यापि चैतन्यस्वरूपप्रवि. ष्टत्वतस्तदभेदमवलम्ब्य चैतन्ये नडस्यापि सत्त्वं प्रसज्येत, एवं सति भावाऽभावयोश्चैतन्य-जडयोश्च स्वरूपसाङ्कर्यमसमञ्जसमापद्यतेत्याहएवमपीति-व्यपदेश-विकल्पानां यादृच्छिकानामपि वस्तुस्वभावायत्तत्वाभावेऽपि वस्तुघटितस्वरूपत्वाङ्गीकार इत्यर्थः। तदभेदेति-वस्त्वभेदेति, शक्त्यभेदेति वाऽर्थः। तत्कुक्षिप्रविष्टत्वं शक्तिकुक्षिप्रविष्टत्वम् । 'जडभिन्नमित्यादि' इत्यादिपदाजडविषयकमित्यादेः परिग्रहः । सावयस्य सत्कार्यवादे बन्ध-मोक्षव्यवस्थाऽनुपपत्तिरपि दोष इत्याह- किचेति। तत्र सर्वस्य सर्वदा मोक्षप्रसक्तो बन्धाभावस्तावदादावुपदर्शयति- प्रधान-पुरुषयोरिति । अपवर्गः मोक्षः । तैः साङ्ख्यैः। सत्कार्यवादे तत्त्वज्ञानलक्षणं कार्य सर्वदा व्यवस्थितमिति तदधीनमोक्षोऽपि सर्वदा व्यवस्थित एव स्यादित्याह- तत्त्वज्ञानं चेति । अपवृत्ताः मुक्ताः। सर्वस्य सर्वदा बन्धभावे मोक्षाभाव । इत्युपदर्शयति

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452