________________
३६० ]
[ तत्त्वबोधिनीविकृतिविभूषितम् शक्तौ तदभेदपर्यवसितमिति तत्कुक्षिप्रविष्टत्वमवधीनां स्वीक्रियते, तदा 'घटाभावः, पटाभावः' इत्यादिव्यवहारानुरोधेन घटादीनामभावकुक्षिप्रविष्टत्वादभावे घटादिसत्त्वमपि प्रसज्यते, 'चैतन्यं जडभिन्नम्' इत्याद्यनुरोधाच्चैतन्येऽपि च जडसचमासज्येत, तथा च महदासमञ्जस्यमिति दिग।
किञ्च सत्कार्यवादे बन्ध-मोक्षाभावोऽपि साङ्ख्यानामासज्यते, प्रधान-पुरुषयोः कैवल्योपलम्भलक्षणतत्वज्ञानोत्पत्तौ ह्यपवर्गस्तैरिष्यते, तत्त्वज्ञानं च सर्वदा व्यवस्थितमेवेति सर्व एव देहिनोऽपावृताः स्युः, स्यापि तदानीं सत्त्वं यदि स्वीक्रियेत तदाऽभावव्यपदेश-विकल्पयोरपि प्रतियोगिलहिताभावविषयावतःप्रतियोगिनोऽप्यभावकुक्षिप्रविष्टत्वेन तदभेदमुपाश्रित्य प्रतियोगिनोऽप्यभावे सत्त्वं प्रसज्येत, एवं ज्ञानलक्षणचैतन्यमपि विषयनिरूप्यमिति विषयीभूतजडसंवलितचैतन्य. विषयकव्यपदेश-विकल्पबलाजडीभूतविषयस्यापि चैतन्यस्वरूपप्रवि. ष्टत्वतस्तदभेदमवलम्ब्य चैतन्ये नडस्यापि सत्त्वं प्रसज्येत, एवं सति भावाऽभावयोश्चैतन्य-जडयोश्च स्वरूपसाङ्कर्यमसमञ्जसमापद्यतेत्याहएवमपीति-व्यपदेश-विकल्पानां यादृच्छिकानामपि वस्तुस्वभावायत्तत्वाभावेऽपि वस्तुघटितस्वरूपत्वाङ्गीकार इत्यर्थः। तदभेदेति-वस्त्वभेदेति, शक्त्यभेदेति वाऽर्थः। तत्कुक्षिप्रविष्टत्वं शक्तिकुक्षिप्रविष्टत्वम् । 'जडभिन्नमित्यादि' इत्यादिपदाजडविषयकमित्यादेः परिग्रहः ।
सावयस्य सत्कार्यवादे बन्ध-मोक्षव्यवस्थाऽनुपपत्तिरपि दोष इत्याह- किचेति। तत्र सर्वस्य सर्वदा मोक्षप्रसक्तो बन्धाभावस्तावदादावुपदर्शयति- प्रधान-पुरुषयोरिति । अपवर्गः मोक्षः । तैः साङ्ख्यैः। सत्कार्यवादे तत्त्वज्ञानलक्षणं कार्य सर्वदा व्यवस्थितमिति तदधीनमोक्षोऽपि सर्वदा व्यवस्थित एव स्यादित्याह- तत्त्वज्ञानं चेति । अपवृत्ताः मुक्ताः। सर्वस्य सर्वदा बन्धभावे मोक्षाभाव । इत्युपदर्शयति