________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३५९ व्यावृत्तिस्तत्र वस्तुस्वभावोऽपि व्यावर्तते, यतो व्यापकस्वभावः कारणं वा व्यावर्तमानं स्वव्याप्यं स्वकार्य वाऽऽदाय व्यावर्तत इति युक्तम् , तयोस्ताभ्यां प्रतिबन्धात्, न च पयसोदध्नि शक्तिरित्यादिव्यपदेशो विकल्पो वा भावानां व्यापकस्वभावः कारणं वा, येनासौ निवर्तमानो वस्तुस्वभावं निवर्तयेत् , व्यपदेश-विकल्पाहि न वस्तुस्वभावायत्ताः, किन्तु यदृच्छाजन्मानः, एकत्रैव शब्दादौ नित्याऽनित्यादिरूपेण वादिनां नानाविकल्पप्रवृत्तेः। एवमपि यद्यवधिनिरूपितत्वे व्यापकाभावेऽवश्यं व्याप्यस्याभावः कारणाभावे चावश्यं कार्यस्याभाव आस्थेयः, विकल्पो व्यपदेशश्च न वस्तुस्वभावस्य .व्यापको नवा कारणमिति न तन्निवृत्त्या वस्तुस्वभावनिवृत्तिरावश्यकीत्याह-यत इति। तयोः व्याप्य कार्ययोः। ताभ्यां व्यापक कारणाभ्याम् । प्रतिबन्धात् व्याप्तेः। 'न च इत्यस्य 'व्यापकस्वभावः, कारणं वा' इत्युभयत्रान्वयः। येन व्यापकत्वेन कारणत्वेन वा। असौ निरुक्तव्यपदेशो निरुक्तविकल्पो वा। व्यपदेश-विकल्पानां वस्तुस्वभावनियतत्वाभावे युक्तिमुपदर्शयतिव्यपदेश-विकल्या हीति । हि यतः। व्यपदेश-विकल्पानामिच्छामात्रप्रभवत्वे हेतुमुपदर्शयति- एकत्रवेति- एक एव शब्दो नित्य इति मीमांसकेन विकल्प्यते, व्यपदिश्यते च, स एव नैयायिकेनाऽनित्य इति विकल्प्यते, व्यपदिश्यते चेति, एवं कश्चिद् वादी तं गुण इति विकल्पयति, कश्चित् तं द्रव्यमिति, तथा च यो चादी यं यथेच्छति तं तथा विकल्पति, व्यपदिशति च, यदि च वस्तुस्वभावाधीनौ व्यपदेशविकल्पौ स्यातां तदा सर्ववादिनामेकस्मिन् वस्तुनि व्यपदेश-विकल्पावेकप्रकारावेव भवेताम्, न तु विभिन्नाकारा विकल्प व्यपदेशा स्युरिति न वस्तुस्वभावायत्ता विकल्प-व्यपदेशा इत्यर्थः । एवं सत्यपि शक्त्यादिव्यपदेशस्य किश्चिन्निरूपितशक्त्यादिविषयकत्वेन जायमानत्वतो निरूपकीभूतावधेः शक्तिस्वरूपप्रविष्टत्वमुररीकृत्य शक्तेः कारणगतायाः पूर्वकालसत्त्वतस्तत्स्वरूपप्रविष्टत्वात् तदभेदमाश्रित्य कार्य