________________
३५८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् __इति चेत् ? न-अवधीनामनिष्पत्ती क्षीरस्य दध्युत्पादने शक्तिरिति व्यपदेशासम्भवेऽप्यनारोपित सर्वोपाधिनिरपेक्षं प्रतिनियतकार्यजनकं यद् वस्तुस्वरूपं यदनन्तरं पूर्वमदृष्टं वस्त्वन्तरं प्रादुर्भवद् दृश्यते तत्प्रतिषेधस्य कर्तुमशक्यत्वात् । न च शब्दविकल्पानां यत्र ननु निश्चयेन । सावधिको नियमः एतनिरूपिता शक्तिरस्मिन्नेवेति नियमः। युक्तः युक्त्या घटते । __ अवध्यनिष्पत्तौ तन्निरूपितवस्तुव्यवहारस्याऽसम्भवेऽपि तद्वस्तुतो जायमानं कार्य प्रतिषेढुं न शक्यते, कार्य प्रति यद् वस्तुनः कारणत्वं तद स्वरूपत एव, न तु तन्निरूपितकारणतयाऽवगतत्वेनेत्यसदपि कार्य कारणतो जायमानमुपलब्धिगोचरत्वात् स्वीकरणीयमेवेति समाधत्ते- नेति । कीदृशं वस्तुस्वरूपमित्यपेक्षायामाह- यदनन्तरमिति। तत्प्रतिषेधस्य असत्कार्यकारणवस्तुस्वरूप. प्रतिषेधस्य। अस्येदं कारणमस्येदं कार्यमित्येवं शब्दप्रयोगो विकल्पो वा मा जायताम् , नैतावता कारणीभूतवस्तुनः कार्याभूतवस्तुनश्च स्वभावो निवर्तत इत्याह- 'न च' इति- अस्य 'व्यावर्तते' इत्यनेनान्वयः। व्यापकनिवृत्या व्याप्यस्य कारणनिवृत्त्या कार्यस्य च निवृत्तिर्भवति, यतो व्यापकनिवृत्तावपि व्याप्यं यदि न निवर्तेत तदा तदभाववद. वृत्तित्वलक्षणं व्याप्यत्वमेव व्याप्यत्वेनाभिमतस्य न स्यात् , तदभाववति तस्य विद्यमानत्वात्। एवं तत्समानाधिकरणात्यन्ताभावाप्रतियोगित्वलक्षणं व्यापकत्वमपि व्यापकत्वेनाभिमतस्य न भवेत् , तत्समानाधिकरणात्यन्ताभावप्रतियोगित्वात् , इति व्याप्य-व्यापकभाव एवोच्छिद्येत, एवं कारणत्वेनाभिमतपदार्थस्याभावेऽपि कार्य: त्वेनाभिमतपदार्थो यदि भवेत् तर्हि तव्यवहितप्राक्क्षणावच्छेदेन तत्समानाधिकरणात्यन्ताभावप्रतियोगित्वेन तद्भावलक्षणकारणत्वमेव न भवेत् , तद्भावे तत्सत्त्वलक्षणव्यतिरेकव्यभिचारेण तत्कार्यत्वमेव च तस्य न स्यादिति कार्य-कारणभावो न निर्वहेदित्यतो