________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३५७ ल्पने गौरवात् , तथा च मृद्रव्येऽनभिव्यक्तद्रव्यात्मना घटसत्त्वमभिव्यक्तपर्यायात्मना च घटासत्त्वमिति स्याद्वाद एव विजयत इति सूक्ष्मदशा निभालनीयम् ।।
अथ असत्कार्यवादिनः कारणतां प्रति नियताः शक्तयो न घटन्ते, कार्यात्मकानामवधीनामनिष्पत्तेः, नावधिमन्तरेणावधिमतः सद्भावः सम्भवतीति प्रतिनियतशक्तिकुक्षिप्रविष्टत्वादेव कारणेषु कार्यसवमावश्यकम् , तदुक्तम्
"अवधीनामनिष्पत्तनियतास्ते न शक्तयः। - सच्चे च नियमस्तासां, युक्तः सावधिको ननु" ॥[ ] ऽनभिव्यक्तद्रव्यात्मापेक्षया सत्वम् , पृथुवुध्नोदरादिलक्षणाभिव्यक्तपर्यायापेक्षयोत्पत्तितःप्रान् मृद्रव्ये घटास्यासत्त्वमित्यतः सदसद्रूपो घट इति सदसत्कार्यवादलक्षणः स्याहादोऽयत्नोपनत इति सोऽन्यवादापेक्षयाऽतिसुदृढनिरूढत्वाद् विजयत इत्याह- मृद्रव्य इति ।
__य उत्पत्तेः पूर्वमसदेव कार्यमित्युपैति, तन्मते उत्पत्तेः प्रागसतः कार्यस्य न किञ्चिनिष्ठकारणतानिरूपकत्वं सम्भवति, सावधिकस्य कारणत्वस्यावध्यभावेऽसत्त्वे तदधीना शक्तिरपि न घटत इति कारणत्वेनाभिमते पदार्थ कार्यत्वेनाभिमतपदार्थानुकूलशक्तिप्रसि. यर्थ कार्यस्य सत्त्वमावश्यकमिति सत्कार्यवादः स्वीकरणीय इति सत्कार्यवादी शङ्कते- अधेति 'असत्कायवादिनः' इत्यनन्तरं 'मते' इति शेषः । कारणतां प्रति नियता इति- यत्र यनिरूपितकारणत्वं तत्र तन्निरूपिता शक्तिरित्येवं कारणतां प्रति नियता इत्यर्थः । कार्य शक्त्यवधित्वं शक्तिनिरूपकत्वमेव, यदा कार्यलक्षणोऽवधिर्नास्ति तदा तदवधिका शक्तिरपि न सम्भवतीत्याह- नहीति- अस्य 'सम्भयति' इत्यनेनान्वयः ।
उक्तार्थ प्राचां सम्मतिमाह - तदुक्तमिति । ते तव मते । सत्त्वे च अवधिभूतानां कार्याणामुत्पत्तेः प्राक् सत्त्वे पुनः। तासां शक्तीनाम् ।