________________
[ तत्त्ववोधिनीविवृतिविभूषितम् न च चक्षुःसंयोगादेरप्यभिव्यक्तस्यैव व्यञ्जकत्वोपगमान्नायं दोषः १ अभिव्यक्तत्वं हि ज्ञातत्वम्, न च चक्षुःसंयोगादेर्शातस्य व्यञ्जकत्वम्, किन्तु स्वरूपसत इति यत्किञ्चिदेतत् । कालविशेषवैशिष्टयमेवाभिव्यक्तिरिति चेत् १ सा तर्हि व्यञ्जकतावच्छेदिका मृद्रव्य एव कल्पनीया, चैत्रादिभेदेनाऽनन्तचक्षुःसंयोगादौ तत्क
पगतत्वेन ‘सदेव कारणे कार्यम्' इति सालयप्रतिज्ञायाः सन्न्यासप्रसङ्गादित्यर्थः । चक्षुस्संयोगादेः स्वरूपतो नाभिव्यञ्जकत्वं तेन स्वरूपतः चक्षुस्संयोगादेः पूर्व सत्वेऽपि न घटोपलम्भप्रसङ्गः, किन्त्वभिव्यक्तस्य चक्षुस्संयोगादेरभिव्यञ्जकत्वम् , अभिव्यक्तिव्यतिरिक्तस्यैव कार्यस्य पूर्व सत्त्वमुच्छृङ्खलसाङ्ख्यमतेऽभिमतमित्यभिव्यक्तेः पूर्वमभावादभिव्यक्तचक्षुःसंयोगादेरपि पूर्वमभाव इति न तत्का. रणस्य घटायुपलम्भस्य पूर्व प्रसङ्ग इत्याशङ्कय प्रतिक्षिपति- न चेति । प्रतिक्षेपहेतुमुपदर्शयति- अभिव्यक्तत्वं हीति । साङ्ख्यः शङ्कतेफलविशेषेति एवं सति स्याद्वादप्रवेश एव साङ्क्षयस्य ज्यायानिति सिद्धान्ती समाधत्ते- सेति-कालविशेषवैशिष्ट्यलक्षणाऽभिव्यक्तिरित्यर्थः। मृद्र्व्य एवेति-अभिव्यक्तमृद्रव्यमेव घटाघभिव्यञ्जकम्, तत्र व्यञ्जकतावच्छेदकतया प्रतिष्ठाभिव्यक्तिश्च कालविशेषवैशिष्ट्यमेव, अभिव्यक्तमृद्मव्यस्य घटाधभिव्यञ्जकत्वकल्पनापेक्षयाऽभिव्यक्तचक्षुःसंयोगादौ घटाद्यभिव्यञ्जकत्वकल्पने गौरवमपीत्यतो लाघवादभिव्यक्तमृद्रव्यस्यैव घटाद्यभिव्यञ्जकत्वं युक्तमित्याह- चैत्रादिभेदेनेति । खत्कल्पने कालविशेषवैशिष्ट्यलक्षणस्याभिव्यक्तत्वस्य कल्पने। भवत्वे. वमेव किं नश्छिन्नमित्यत आह- तथा चेति- अभिव्यक्तमृद्रव्यस्य घटाद्यभिव्यञ्जकत्वे चेत्यर्थः। अपेक्षाभेदेन सत्त्वाऽसत्त्वयोरेकत्र कार्ये सदसत्काविादो जैनानां सिद्धिमुपयाति, घटरूपकार्यस्य मृद्रव्ये