________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३५५
"
वैफल्यानुद्धारात्, असच्चे च सत्कार्यवादक्षतेः, एतेन 'अभिव्यक्त्यतिरिक्तस्यैव कार्यस्य प्राक् कारणे सच्चमित्यभिव्यञ्जकतया साधनप्रयोगस्य च वैफल्यम्, दण्डादीनां च घटादौ न कारकत्वं ज्ञापकत्वं वा, तद्व्यवहारश्च तत्र वासनाविशेषादेव, विलक्षणसंस्थानावच्छेदेन चक्षुः संयोगादेरेव च घटाद्यभिव्यञ्जकत्वम्, तदभावादेव न प्राग् घटाद्युपलम्भ:' इत्युच्छृङ्खल साङ्ख्यमतमपि निरस्तम् चक्षुः संयोगविशेषादेरपि प्राक् सच्चे घटाद्युपलम्भ प्रसङ्गात्, असच्चे च प्रतिज्ञाहानेः । वा, निश्चयोपलम्भकस्य यद् आवारकं तदपगमस्वरूपा वा, तस्याः सत्कार्यवादे प्रागपि सत्येन तदर्थ साधनप्रयोगवैफल्यादित्यर्थः । ननु निरुक्तान्यतमस्वरूपा निश्चयाभिव्यक्तिः प्रागसत्येवोररीक्रियत इति तदर्थ साधनप्रयोगस्य साफल्यं स्यादित्यत आह- असत्त्वे चेतिनिरुक्तलचणाभिव्यक्तेः प्रागसत्त्रे चेत्यर्थः । ' एतेन ' इत्यस्य 'निरस्तम्' इत्यनेनान्वयः, एतेन सत्कार्यवादक्ष तिलक्षणदोषेण । ननु घटादिलक्षणकार्यमभिव्यक्त्यतिरिक्तमेव तस्य कारणे प्राक् सत्त्वमेतावताऽध्यापातमेवेति तदर्थं दण्डादिव्यापार वैयर्थ्यमित्यत आह- दण्डादीनां चेति । तद्व्यवहारश्च दण्डादयो घटादीनां कारणम्, घटादयश्च दण्डादीनां कार्यमिति व्यवहारश्च । तत्र दण्डादिघटादिषु । यदि दण्डादयो न घटादेः कारणम्, घटादिकं वा न दण्डादिकार्य तर्हि दण्डादिव्यापारात् पूर्वमपि घटादुपलम्भः कस्मान्न भवतीत्यत आह - विलक्षणेति । तदभावादेव विलक्षणसंस्थानावच्छेदेन चक्षुस्संयोगविशेषादेरभावादेव । एतेन इत्यभिमतमेव निरासहेतुमुपदर्शयतिचक्षुस्प्रयोगविशेषादेरपीति- चक्षुस्संयोगविशेषादिरपि कार्यमेव, सत्कार्यवादे तस्यापि प्राक् सत्त्रे तज्जन्यस्य घटाद्युपलम्भस्यापि प्राक् स्यादित्यर्थः । असत्त्वे च चक्षुरसंयोगविशेषादेः पूर्वमसत्त्वे च । प्रतिज्ञादानेः एवं सति असतोऽपि चक्षुस्संयोगविशेषादेः कार्यस्याभ्यु