________________
३५४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् मनःस्वरूपत्वेऽपि तयोनित्यत्वेन तदोषानुद्धारात् , मनसो नित्यत्वेऽपि तवृत्तिरूपसंशय-विपर्यासयोरनित्यत्वाभ्युपगमे वाऽनेकान्तप्रवेशात्, निश्चयोत्पत्तेरपि साधनादसम्भवात् , तस्याः सर्वदाऽवस्थितत्वात् , अन्यथा सत्कार्यप्रतिज्ञाहानेरिति साधनप्रयोगनैष्फल्यमेव साङ्ख्यदर्शने । प्रागनभिव्यक्तो निश्चयः पश्चात् साधनेभ्योऽभिव्यक्तिमासादयतीत्यभिव्यक्त्यर्थ साधनप्रयोगसाफल्यमिति चेत् ? नस्वभावातिशयोत्पत्तिलक्षणायास्तद्विषयज्ञानलक्षणायास्तदुपलम्भकावारकापगमलक्षणाया वाऽभिव्यक्तेः प्राक् सत्त्वेन साधनप्रयोगतदाप्याह- बुद्धि-मनःस्वरूपत्वेऽपीति। तयोः बुद्धि-मनसोः। तदोषानुद्धारात् संशय-विपर्यासाऽनिवृत्तिलक्षणदोषतादवस्थ्यात् । ननु न मनःस्वरूपौ संशय-विपर्यासौ, किन्तु तद्वृत्तिरूपौ तावनित्याविति तन्निवृत्तिसम्भव इत्यत आह- मनसो नित्यत्वेऽपीति। तवृत्तिरूपेति- मनोवृत्तिरूपेत्यर्थः, कार्यकारणयोरमेदोऽपि कापिलेनोपेयत इति संशय-विपर्यासयोर्मन परिणामयोर्मनसाऽभेदेन नित्यावम् , स्वरूपतश्चानित्यत्व मित्येवं स्याद्वादप्रवेशः स्यात् तयोः स्वरूपतोऽनित्यत्वाभ्युपगमे इत्यर्थः। संशय-विपर्यासनिवृत्तिलक्षणफलानुपपत्तिमुपदर्य निश्चयोत्पत्तिलक्षणफलासम्भवमुपदर्शयति- निश्चयोत्पत्तेरपीति । तस्याः निश्चयोत्पत्तेः। अन्यथा निश्चयोत्पत्तः सदावस्थितत्वानङ्गीकारे। यदा च साधनस्य निरुक्तफलद्वयमप्युक्तदिशा साङ्ख्यदर्शने न सम्भवति तर्हि साधनप्रयोगवैफल्यमेव तदर्शने स्यादित्याइ- इति साधनप्रयोगवैफल्यमेव साङ्ख्यदर्शन इति । साङ्ख्यः साधनप्रयोगसाफल्ये युक्तिमा शङ्कते- प्रागनभिव्यक्त इति । अभिव्यक्त्यर्थं निश्चयाभिव्यत्तयर्थम् । यादृशी तादृशी वाऽभिव्यक्तिर्भवतु परं साऽपि सत्कार्यवादिना प्राक् सत्येवाङ्गीकार्येत्येवमपि साधन प्रयोगवैफल्यमेवेति समाधत्ते- नेति, निश्चयाभिव्यक्तिः-निश्चयस्य स्वभावातिशयोत्पत्तिः, निश्चयविषयकज्ञानं