________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३५३
विपर्ययः पञ्चस्वपि प्रसङ्गसाधनेषु योज्यः । अपि च सर्वमेव साधनं स्वविषये प्रवर्तमानं द्वयं विदधाति - स्वप्रमेयार्थविषये उत्पद्यमानौ संशय- विपर्यासौ वा निवर्तयति, स्वसाध्यविषयं वा निश्चयमुपजनयतीति, न चैतत् सत्कार्यवादे युक्त्या सङ्गच्छते, संशय- विपर्यासयोचैतन्य स्वरूपत्वे नित्यत्वेन साधनव्यापारान्निवृत्ययोगात्, बुद्धिनिरुक्तप्रयोजनस्यैव तन्मतेऽसम्भवादिति येषां स्वशास्त्रप्रणयनमेवाचतुरस्रमित्याह- अपि चेति । स्वविषये प्रवर्तमानं सर्वमेव साधनं द्वयं विदधाति स्वस्य लिङ्गलक्षण साधनस्य विषये स्वज्ञानजन्यज्ञानविषयत्वेन विषयीभूते व्यापकलक्षणसाध्ये, प्रवर्तमानं तन्निर्णयाय प्रयुज्यमानम्, सर्वमेव साधनं लिङ्गम्, द्वयं विदधाति उभयं करोति स्वप्रमेयसाध्यविषयक संशयविपयेयान्यतर निवृत्तिलक्षणं यदेकं कार्य यच्चापरं स्वसाध्यविषयक निश्चयलक्षणं कार्य तदुभयं करोति, एकदा कार्यद्वयरूपफलोपधानाभावेऽपि तत्स्वरूपयोग्यत्वस्य सद्भावात् । किं द्वयं विदधातीत्यपेक्षायामाह - स्वप्रमेयार्थविषय इति - स्वज्ञानजन्यप्रमाविषयसाध्यरूपार्थविषय इत्यर्थः । उत्पद्यमानौ विषयतासम्बन्धेन उत्पद्यमानौ, यदि स्वविषये प्रवर्तमानं साधनं न स्यात् तहिं तत्र संशयो विपर्यासो वोत्पद्येतैव, तौ च संशय-विपर्यासौ निवर्तयति तदुत्पत्ति प्रतिबध्नाति निरुकसाधनाप्रवृत्तिकाले उत्पद्यमानावपि तौ तत्प्रवृत्तौ सत्यां नोत्पद्येते इति तदुत्पत्तिप्रतिबन्ध एव तनिवर्तनमित्यर्थः । वा अथवा | स्वसाव्यविषयं निश्चयं स्वस्य प्रकृतसाधनस्य यत् साध्यं स्वज्ञानजन्यज्ञानविषयार्थस्वरूपं तद्विषयकं निश्चयात्मकज्ञानम् उपजनयति उत्पादयतीत्यर्थः । तदेतन्निरुक्तसाधनप्रयोजनं यथा सत्कार्यवादे साङ्ख्यमते न घटते तत् प्रपञ्चयति - न चेत्यादिना । 'न च' इत्यस्य 'सङ्गच्छते ' इत्यनेनान्वयः । एतत् संशय विपर्यय निवृत्ति स्वविषयनिश्चयरूपफलद्वयम् । तत्र संशय विपर्यय - निवृत्त्यसम्भवं सहेतुकमुपदर्शयति- संशये इति । यदि साङ्ख्यमते संशय-विपर्ययौ न चैतन्य - स्वरूपौ, किन्तु बुद्धेर्मनसो वा वृद्धिविशेषत्वात् तद्रूपावेव ता
२३