________________
३५२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् 'शक्तस्य शक्यकरणाद्' इत्येतदपि साध्याभावादेवायुक्तम्, यदि हि किश्चित् केनचिदभिनिर्वत्यैत, तदानिर्वतकस्य शक्तिर्व्यवस्थाप्येत, निर्वय॑स्य च कारणं सिद्धिमध्यासीत नान्यथेति ४ कारणभावोऽपि भावानां साध्याभावादेव सत्कार्यवादे न युक्तः ५ ।
न चैतदिष्टमिति न सत्कार्य कारणावस्थायामिति प्रसङ्ग करणाद्' इत्यस्य साध्याभावादयुक्तत्वं यदुक्तं तदुपपादयति- यदि हीति । अभिनिव]त जन्येत । निवर्तकस्य उत्पादकस्य । नान्यथा केनचित् कस्यचिन्निवृतेरभावे शक्तिर्व्यवस्थापिता न भवति, नवा कस्यचित् किञ्चित् कारणं सिद्धयतीति। 'कारणभावाद्' इति पञ्चमहेतुं समर्थयति- कारणभावोऽपीति- 'न युक्तः' इत्यनेनान्वयः।
न चैतदिष्टम् सर्वैरेव कर्तृभिः प्रतिनियतकार्योत्पादनार्थ प्रतिनियतोपादानग्रहणं क्रियत एवेति तस्यानुपपन्नत्वं नेष्टम् , तथा नियतादेव क्षीरादेर्दध्याद्युत्पादस्य प्रतीयमानत्वानियताजन्मनोऽनुपपन्नत्वं नेष्टम् , एवं शक्तादेव कारणाच्छक्यस्य कार्यस्योद्भव इति शक्तस्य शक्यकरणानुपपन्नत्वमपि नेष्टम् , कारणभावस्य प्रतीयमानस्यानुपपन्नत्वमपि नेष्टम् । इति एतस्मात् कारणात् । कारणे उत्पत्तेः प्राक् कार्यसत्त्वे यदनिष्टमापतति तत्परिहाराय कारणावस्थायां कार्य न सदित्येवस्वरूपः प्रसङ्गविपर्ययः सर्वत्र योज्य इत्याह- न सत्कार्यमिति।
सत्कार्यवादे दूषणान्तरमप्युपदर्शयति- अपि चेति। परस्याज्ञस्य यद्विषयकं ज्ञानं नास्ति तद्विषयकनिश्चयात्मकज्ञानोत्पत्तये, संशयितस्य परस्य यद्विषयकं संशयात्मकं ज्ञानं तन्निर्णयजनकप्रमाणानवलोकनादुत्पद्यते तस्य तद्विषयकसंशयनिवृत्तये विपर्यस्तस्य परस्य यद्विषयको विपर्यासो विपरीतकोटिनिर्णयात्मको भ्रम उत्पद्यते तस्य तादृशभ्रमनिवृत्तये वा स्वसाध्यप्रमेयव्याप्यलक्षणं लिङ्गं प्रयुञ्जते वादिनः, सत्कार्यवादिनस्तु कापिला नैवं साधनं प्रयोक्तुमुत्सहन्ते