________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ ३५१ तादेव च क्षीरादेर्दध्यादीनामुद्भव इत्येतदप्यनुपपन्नं स्यात्, साध्यस्यासम्भवादेव, यतः सर्वस्मात् सम्भवाभाव एव नियताजन्मेत्युच्यते, तच्च सत्कार्यवादे दुर्वचम् सति सम्भवे सर्वस्माद् भावापत्तेरनिवारणात्, असति च 'सर्वस्माद्' इति वचनस्य नैरर्थक्यात् ३ तथा
साध्यस्याभावादेव न नियताज्जन्मसम्भव इत्याह- साध्यस्याऽसम्भवादेवेति । अमुकस्य कार्यस्यामुकादेव भावो न सर्वस्मादिति सिद्धौ सत्यामेव नियताज्जन्मेति प्रसिद्ध्यति, सत्कार्यवादे तु सतो जन्मैव विद्यते, नाऽमुकस्याऽमुष्माज्जन्मेत्यभिधातुं शक्यमिति कुतो नियताजन्म ? सतोऽपि जन्यत्वे कस्यचिदतिशयस्योत्पादनमन्तरापि तत्कारणं किञ्चिदेष्टव्यम् एवमन्यदप्यतिशयोत्पादकत्वाभावाविशेषात् किं न तत्कारणं भवेद् ? इति सर्वस्मात् सम्भवे कथं नियताज्जन्म ?, सतो जन्मनोऽसम्भवे च 'सर्वस्माद्' इतिहेत्वर्थक पञ्चम्युक्तेरप्यनुपपत्तिरित्याह- यत इति । तच्च सर्वस्मात् सम्भवाभावतो नियताज्जन्म च । प्रसक्तस्य निषेधो भवति, नाऽप्रसक्तस्येति सर्वस्माद यदि सम्भवो भवेत् तदा तत्प्रतिषेधः कुतश्चिद् हेतोः कर्तुं शक्यः, सत्कार्यवादे व कार्ये सत्त्वस्याऽविशेषाद विशेषान्तरस्य वक्तुमशक्यत्वात् प्रतिनियतकारणापेक्षयेवाऽन्यापेक्षयाSप्युत्पादसम्भवे सर्वस्माद् भावापतितः सर्वस्मात् सम्भवाऽभावाऽसिद्धया न नियताज्जन्मप्रसिद्धिरित्याह- सति सम्भव इति - सत उत्पादसम्भवे सतीत्यर्थः । यदि च सत उत्पाद एव न सम्भवति तहिं न सर्वस्य कस्यचित् कारणत्वमिति कारणत्वार्थकपञ्चमीविभक्तिरेव सर्वशब्दान्नोत्पत्तुमर्हतीति 'सर्वस्माद्' इति वक्तुमशक्यत्वे सर्वस्मात् सम्भवाभावः' इत्यपि नाभिधातुं शक्यमिति कथं ततो नियताज्जन्मप्रसिद्धिरित्याह- असति चेति- सतो जन्मनः सम्भवेsafa चेत्यर्थः ।
चतुर्थहेतुं भावयति - तथेति । सत्कार्यवादे 'शकस्य शक्य -
4