________________
३५० ]
[ तत्त्वबोधिनीविवृतिविभूषितम् सर्वकार्यत्वप्रसङ्गस्य निरवकाशत्वादिति वाच्यम्; अभिव्यक्त्यादिलक्षणस्यातिशयस्यापि प्राक् सत्त्वे उक्तहेतावसिद्धतादूषणाऽभावात् , प्रागसत्त्वे तु सत्कार्यवादक्षतेः, तत् स्थितमेतत्-सदकरणान्न सत्कायम् १ तथा सत्कार्यवादे साध्यस्याऽभावादुपादानग्रहणमप्यनुपपन्न स्यात् , तत्साध्यफलवाञ्छयैव प्रेक्षावद्भिरुपादानपरिग्रहात् २ नियलक्षणस्योत्पाद्यत्वबलात् सतोऽपि जन्यत्वं यद् भवद्भिरुपपाधते तत्र वक्तव्यम्, अभिव्यक्त्यादिलक्षणातिशयः किमुत्पत्तेः प्राक् सन् ? असन् वा ? आये तस्यापि पूर्वमेय वृत्तत्वेन न जन्यत्वमिति न तबलात् कार्यस्यापि जन्यत्वम् , अन्ते असतोऽभिव्यक्त्यादिलक्षणातिशयस्योत्पादाभ्युपगमात् सत्कार्यवादहानिः' इत्याशयवान् प्रतिक्षेपहेतुमुपदर्शयति- अभिव्यक्त्यादिलक्षणस्येति । उक्तहेतौ अभिव्यक्त्यादि. रूपेण यत् सर्वात्मना सदित्येवमुपादीयमानहेतौ। असिद्धतादूषणाभावात् तादृशस्य हेतोः पक्षे सत्त्वेन स्वरूपासिद्धयभावात् , अभिव्यक्त्यादिलक्षणातिशयस्याप्युत्पाद्यत्वाभावेन न तदादायापि जन्यत्वस्य सम्भव इति केनचिजन्यत्वाभावलक्षणसाध्यस्यैवोक्तहेतुमति भावेन नोक्तहेतोरनैकान्तिकताऽपीत्याशयः। प्रागसत्त्वे तु अभिव्यक्त्यादिलक्षणातिशयस्य प्रागसत्त्वे पुनः, यद्यपि तदानीम् 'अभिव्यक्त्यादिरूपेण सर्वात्मना सत्त्वम्' इति हेतु स्तीत्यसिद्धता स्यादेवेति न तथासविशेषणो हेतुरुपादातुं शक्यः, तथापि साङ्ख्यस्यैवमुपगमे स्वाभ्युपगतसत्कार्यवादक्षतिरेव महद् दूषणम् । उपसंहरति-तत् स्थितमेतदिति। ___ 'उपादानग्रहणाद्' इति द्वितीयहेतुं भावयति- तथेति । साध्यस्याभावादिति-किञ्चित्कार्यस्योत्पाद्यस्योत्पादनार्थमेवोपादानग्रहणं करोति कर्ता, सत्कार्यवादे तु साध्यस्योत्पादनलक्षणस्याभावात् , नहि सत एवोत्पादनं तदविरामप्रसङ्गादियुपादानग्रहणमनुपपन्नमेव श्यादित्यर्थः। उपादानग्रहणानुपपत्तिमेव भावयति-तत्साध्येति-उपादानसाध्येत्यर्थः। - 'सर्वसम्भवाभावाद् 'इति तृतीयहेतुं समर्थयति-नियतादेव चेति। साध्य यदि किश्चित् स्यात् तदा तस्य नियताज्जन्म भवेत् , सत्कार्यवादे